पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/76

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतकथासंग्रह (3) State in Sanskrit what the thief and the dlem01 spoke to each other in order t() achieve their own respective object. प्रतिग्रह: A present. युगं A pair. समं At the same time. गोखुर: A hoof of a cow. सदनं A house. विप्रः A br2.117in. प्राबोधि (Got up. आत्तकृपाण: ()me who has taken a sword. जापिन् Muttering prayer (which would kill the demon ). १४. न्यासीकृतालङ्करणभाण्डस्यापहरणम् । (प्रथमो भागः ) शर्विलकः---(महतीं निवासरचनामवलोक्य, अन्तः प्रविश्य च) अये ! पुरुषद्वयं सुप्तम्। भवतु, आत्मरक्षार्थ द्वारमुद्धाटयामि । कथं जीर्णत्वाद्गृहस्य विरौति कपाट: तद्यावत्सलिलमन्वेषयामि । क नु खलु सलिलं भविष्यति । (इतस्ततो दृष्टा सलिलं गृहीत्वा क्षिपति) मा तावत् भूमौ पतत् शब्द मुत्पादयेत् । भवतु, इदानीं तावत्परीक्षे, लक्ष्यसुप्तम् उत परमार्थसुप्तमिदं

िकं

द्वयम् । (परीक्ष्य) अये ! परमार्थसुसेनानेन भवितव्यम् । लक्ष्यसुतं यदि स्यात्तर्हि दीपमभिमुखं न मर्षयेत् । (समन्तादवलोक्य ) अये ! कथं मृदङ्गः । इयमपि वीणा । एते वंशाः । कथं नाट्याचार्यस्य गृहमिदम् । अथवा, परमार्थदरिद्रोऽयम् । चौरभयाद्वा भूमिष्टं द्रव्यं धारयति । तन्ममपि नाम शर्विलकस्य भूमिटं द्रव्यम् । भवतु, बीजं प्रक्षिपामि । ( तथा कृत्वा) निक्षिप्तं बीजं न कचित् स्फारीभवति । अये ! परमार्थदरिद्रोऽयम् । भवतु, गच्छामि ।