पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/83

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपाध्यायेन शप्तोर्वशी । १७, उपाध्यायेन शप्तोर्वशी । प्रथमः शिष्यः–सखे पलुव, पृच्छामि त्वां खलु । अपि गुरोः प्रयोगेण दिव्या परिषदाराधिता । द्वितीयः शिष्यः–गालव, न जाने आराधिता न वेति । लक्ष्मी स्वयंवरे नाम तस्मिन् काव्यबंधे विविधेषु रसेषु तन्मय्यासीत् । किंतु तस्मिनुर्वश्या वचनं प्रमादस्खलेतमासीत् प्रथमः-कथमिव । द्वितीयः-लक्ष्मीभूमिकायां वर्तमानोर्वशी वारुणीभूमिकायां वर्तमानया मेनकया पृष्टा । सखि, समागता एते सकेशवा लोकपालाः । कतमस्मिस्त्वं प्रथमः --ततस्ततः । द्वितीयः–ततस्तया पुरुषोत्तम इति भणितव्ये पुरूरवसीति निर्गता वाणी । प्रथमः—न खलु तामभिकुद्धो गुरुः । द्वितीयः-सा खलु शप्तोपाध्यायेन । महेन्द्रेण पुनरनुगृहीता । प्रथमः--कथमिव । द्वितीयः—येन ममोपदेशस्वया लङ्कितस्तेन न ते दिव्यं स्थानं भवि ष्यतीत्युपाध्यायस्य शापः । महेन्द्रेण पुनः प्रेक्षणावसाने सा भणिता यस्मिन्बद्धभावासि तस्य राजर्षेः प्रियं मया करणीयम् । अतस्त्वं पुरूरव समुपतिष्ठस्व यावत्स त्वयि दृष्टसंतानो भवेदिति । प्रथमः ---सदृशमेतन्महेन्द्रस्य ।