पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/85

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णश्लोकाः । धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ ४ ॥ । यदभावि न तद्भावि भावि चेन्न तदन्यथा । इति चिंताविषप्तोऽयमूगदः किं न पीयते ॥ ५

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ।। ६ ।। कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः । अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ।। ७ ।। मातृवत्परदारेषु परद्रव्येषु लोष्टवत् । आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ ८ ।। असंभवं हेमृगस्य जन्म तथापि रामो लुभे मृगाय । प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥ ९ ॥

  • विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।

यशसि चाभिरुचिव्र्यसनं श्रुतैौ प्रकृतिसिद्धमिदं िह महात्मनाम् ॥१०॥ नीचगा (1) Possessed by a.l()w person. (2) Flow ing dow nward. दुर्धर्ष [Imaccessible. भाग्यमत:परम् (1) r(07 which proceeds a great fortune. (2) More than that depends up01 fate (the future rests with fortune). अजरामरवत् Like ()me wh() is Inot subject to old age or death. गृहीत इव केशेषु