पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/88

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० वीरकः---ओरे, त्वमपि कः ? चन्दः–त्वमात्मनो जातिं न स्मरसि ? वीरकः– अरे, का मम जातिः ? चन्दः–को भणतु ? वारकः-भणतु । चन्दः–कर्तरीव्यापृतहस्तस्वं सेनापतिर्जातः । वीरकः– अरे चन्दनक ! त्वमपि आत्मनो जातिं न स्मरिस ? चन्दः–अरे ! का मम चन्दनकस्य जातिः ? वीरकः –को भणतु ? चन्दः-भणतु । वीरकः–चर्मकारसुतस्त्वं सेनापतिर्जातः । चन्दः –अहं चर्मकारः ? तत् प्रलोकय प्रवहणम् । वीरकः– अरे प्रवहणावाहक ! अहं प्रवहणं प्रलोकयिष्यामि । ( वीरकः प्रवहणमारोढुमिच्छति, चन्दनकः केशेषु गृहीत्वा पातयति पादेन ताडयति ) वीरकः–(सक्रोधमुत्थाय ) ओरे, अहं राजाज्ञप्ति कुर्वन्, केशेषु गृहीत्वा पादेन ताडितः । एतत्सर्वं राजकुले निवेदयामि । चन्दः--राजकुलम्, अधिकरणं वा व्रज; किं त्वया शुनकसदृशेन ? ( वीरकः तथेत्युक्त्वा गच्छति । ) (1) FExplain the forms : कलहायमान, यातम्, उन्नामय, व्याप्टत, उत्थाय.