पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/90

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतकथासंग्रहः प्रभाते प्रबुद्धा सा नापश्यत स्वकं पतिम् । ताभ्यन्ती च ततः सा वै सख्यै सर्व शशंस तत् ॥ ३ ॥ योगेश्वरी चित्रलेखा तामुषामेवमब्रवीत् । सखि देवीवरस्यायं प्रभावोऽत्र किमुच्यते ।। ४ ।। जगलिखामि तन्मध्ये तं मे आनीयते मयेत्युक्ता सा तथेत्युदिते तया । चित्रलेखा क्रमाद्विश्वमलिखद्वर्णवर्तिभिः ॥ ६ ॥ द्वारवत्यां यदुकुलदानरुद्रमदर्शयत् ।। ७ ।। । चित्रलेखा ततोऽवादीत्सखि धन्यासि यत्त्वया। भर्ताऽनिरुद्धः प्राप्तोऽयं पौत्रो भगवतो हरेः ।। ८ ।। तदैवोत्पत्य नभसा ययौ द्वारवतीं पुरीम् । ददर्श च पृथूतुङ्गमन्दिरैरब्धिमध्यगाम् ॥ ९ ॥ तस्यां सुतं निशि प्राप्य साऽनिरुद्धं विबोध्य च । उषानुरागं तं तस्मै शशंस स्वप्तदर्शनात् ॥ १० ॥ ततः सिद्धप्रभावेण क्षणेनैवायौ पुनः । प्रावेशयदुषायास्तं गुप्तमन्तःपुरं प्रियम् ॥ ११ ॥ ततस्तेन समं तस्थौ सखीदतेन तत्र सा । जीवितेनेव मूर्तेन वलुभेन यथासुखम् ॥ १२ ॥ तज्ज्ञानात्पितरं चास्याः क्राद्धं बाणं जिगाय सः । अनिरुः स्ववीर्येण पितामहबलेन च ॥ १३ ॥