पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/92

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१. दौपदीवस्त्रहरणम् । (प्रथमो भागः)

भ्रातुःशासनं श्रुत्वा राजपुत्रो दुःशासनः समुत्थाय पाण्डवानां वेश्म प्रविश्य राजपुत्रीं द्रौपदीमब्रवीत् । एह्येहि, पाश्चालेि, जितासि कृष्णे । विमु क्तलज्जा त्वं दुर्योधनं पश्य, कुरून् भजस्व च । इति श्रुत्वा सा दुःखार्ता समुत्थाय विवर्ण मुखं करेणामृज्य प्राद्रवद्यत्र वृद्धस्य राज्ञः स्त्रिय आसन् । ततो दुःशासनस्तां जवेनाभ्यसरकेशेषु च नरेन्द्रपत्नीमगृह्यात् । सा द्रौपदी कृष्यमाणा शनैरवदत् । अनार्य, एकं च वासो ममातः सभां मां नेतुं नाऽर्ह सीति । ततस्तां कृष्णां केशेषु प्रसभं निगृह्य दुःशासनोऽब्रवीत् । याज्ञसेनि, एकाम्बरा वा विवस्रा वा भव, दृते जिता चासि कृतासि दासी । इत्युक्त्वा तेन सा प्रकीर्णकेशी पतितार्धवस्रा च सभामध्ये नीता ।

(द्वितीयो भागः) ततः कर्णेनाभिहितम् । दुःशासन, पाण्डवानां द्रौपद्याश्च वासांस्युपा हरेति । तदा सर्वे पाण्डवाः स्वानि वासांस्यवकीर्य सभायां समुपाविशन्। ततो दुःशासनो द्रौपद्या वसनं सभामध्ये व्यपाक्रष्टुं प्राक्रमतः। आकृष्यमाणे वसने, द्रौपद्या चिन्तितो हरिः । हे गोविन्द, द्वारकावा सिन्कृष्ण, कौरवैः परिभृतां मां किं न जानासि । केशव, कौरवार्णवमग्रां मामुद्धरस्व । हे विश्वभावेन, पाहि मां प्रपन्नाम् । इत्यनुस्मृत्य त्रिभुवनेश्वरं कृष्णं सा भामिनी मुखमाच्छाद्य प्रारोदीत् । 'पि । ` ५ट् हुई याज्ञसेन्या वचः श्रुत्वा कृष्णस्तां विविधैः सुवस्त्रैः समावृणोत् । आकृष्यमाणे द्रौपद्या वसने. वस्रमपरं प्रादुरासीदनेकशः । नानारागविरागाणि