पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/94

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२. मयसभावर्णनम् ।

सभा च सा महाराज शातकुम्भमयदुमा । प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ।। १ ।। |उत्तमद्रव्यसंपन्ना रत्नप्राकारतोरणा । । बहुचित्रा बहुधना निर्मिता विश्वकर्मणा ॥ २ ॥ तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च । सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः ।। ३ ।। तस्यां सभायां नलिनीं चकाराऽप्रतिमां मयः । पुष्पितैः पङ्कजैश्चित्रां कूर्मत्स्यैश्च काञ्चनेः । चित्रस्फटिकसोपानां निप्पङ्कसलिलां शुभाम् ।। ४ ।। मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः । दृष्टाऽपि नाऽभ्यजानन्त तेऽज्ञानाप्रपतन्त्युत ॥ ५ ।। जलजानां च पद्मानां स्थलजानां च सर्वशः । मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ।। ६ ।। ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः । निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत् ॥ ७ ॥

(1) Explain the following forms : - शांतकुम्भमय, संपन्न, अष्टौ, अभ्येत्य, आदाय, निष्ठित. (2) Write notes on नाम; उतः स्मः धर्मराजाय न्यवेदयत्,