पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/96

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ अथवा किं बहुना जल्पितेन । मम प्रतिशैषा यद्यद् हृदयेनेहसे संद्रष्टुम् । तत्तद्दर्शयाम्यहं गुरोर्मन्त्रप्रभावेण ॥ २ ॥

राजा–(राज्ञीं प्रित) देवि, बहुतरमनेन गर्जितम् । पश्यामस्तावत् । राज्ञी-उज्जयिनीत आगत इत्यस्ति मेऽस्मिनैन्द्रजालिके पक्षपातः । राजा–(ऐन्द्रजालिकं प्रति ) भद्र, प्रस्तूयतामिन्द्रजालम् । ऐन्द्रजा०“यद्देव आज्ञापयति । (इति िपिच्छां भ्रमयन्) हरिहरब्रह्मप्रमुखान्देवान्दर्शयामि देवराजं च । गगने सिद्धचारणसुरवधूसाथै च नृत्यन्तम् ॥ ३ ॥

तत्प्रेक्षतां देवः । राजा---(ऊध्र्वमवलोक्य) आश्चर्यमाश्चर्यम् । देवि पश्य । एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं दोभिर्दैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिहैश्चतुर्भिः । एषोऽप्यैरावतस्थत्रिदशपतिरमी देवेि देवास्तथान्ये नृत्यन्ति व्योनि चैताश्चलचरणरणनूपुरा दिव्यनार्यः ॥ ४ ॥

विद०-(अपवार्य) आः दास्या:पुत्र ऐन्द्रजालिक, किमेतैर्देवैर प्सरोभिश्च दर्शितैः । यदि तेऽनेन परितुष्टन कार्य तत्सागरिकां दर्शय । वसुंधरा–(प्रविश्य राजानं चोपसृत्य) जयतु जयतु भर्ता । विक्रमबाहोः प्रधानामात्यो वसुभूतिरागतः । तदर्हति देवस्तं प्रेक्षितुम् । राज्ञी—आर्यपुत्र तिष्ठतु तावदिन्द्रजालम् । मातुलगृहाप्रधानामात्यो वसुभूतिरागतः । तं तावत्प्रेक्षतामार्यपुत्रः ।