पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/98

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतकथासंग्रहः

२४. संकीर्णश्लोकाः । वज्रादपि कठोराणि मृनि मादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ।। १ ।। खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ।। २ ।। अतिपरिचयादवज्ञा संततगमनादनादरो भवति । मलये भिलपुरंध्री चंदनतरुकाष्टर्मिधनं कुरुते ॥ ३ ॥ सर्पः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कंदैः फलैर्मुनिवराः क्षपयन्ति कालं संतोष एव पुरुषस्य परं निधानम् ।। ४ ।। नरपतिहितकर्ता द्वेष्यतां याति लाके जनपदहितकती त्यज्यते पार्थिवेन्द्रेः । इति महतेि विरोधे वर्तमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ ५ ॥ सुखं िह दुःखान्यनुभूयशोभते घनांधकारेष्विव दीपदर्शनम् । सुखातु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति ॥६॥ , ८ व्यतिषजति पदार्थानांतरः कोऽपि हेतु र्न खलु बहिरुपाधीन्प्रीतयः संश्रयंते । विकसति हि पतंगस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्वते चंद्रकांतः ।। ७ ।।