पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढचयनसूत्रोपोद्धातः । , . O सत्यापाढं नमस्कृत्य महादेवः सतां मुदे । तनुते तत्प्रसादेन करणीमिष्टकां शुभाम् ॥ अथ द्वितीयश्येनस्यैकविधस्येष्टकाकरणानि वक्ष्यन्ते । तत्राऽऽदौं पुरुषप्रमाणानय- नम् । ' विधासप्तमकरणी पुरुषस्थानीयां कृत्वा विहरेत् ' ( स० शु० सू० २५ । ९) इति शुल्बसूत्रम् | यावत्योऽर्विधाः सन्ति तासां सप्तमं या करोति मा विधा सप्तमक- रणी । तां पुरुषस्थाने कृत्वा तया चाऽऽत्मपक्षाच्छानि विहरेत् । अयमर्थः-यद्येकवि- धोऽग्निस्तं पञ्चदशधा विभज्य द्वौ भागौ समस्य समचतुरनं कृत्वा तस्य प्रमाण पुरुष- स्थाने कृत्वाऽनेनाऽऽत्मपक्षपुच्छानि विहरेत् । एवमेव द्विविधादिषु कुर्यात् । चत्वारि सहस्राण्यशीतिः सप्तमकरणीति ताः ( पुरुषः ) तेषां वर्ग एककोटिः षत्रियुतानि षड्- युतानि चत्वार्ययुतानि षट्सहस्राणि चत्वारि शतानि । रघष्टविधं पुरुषवर्गमष्टाभिर्गण- यित्वा पूर्वराश्यर्धेन संयोज्य तत्पश्चदशभिर्विभज्य लब्धं द्विगुणीकृत्य मूले गृहीते (स) तस्य पुरुषो. भवति । अपचये त्वरत्निप्रादेशानामभावान्नार्धसंयोग इतरदुपचयवदिति । अथ पुरुषानयनप्रकारः । विधासप्तमकरण्या अगुलयः १२० । एतं एवं चतु. त्रिंशताऽङ्कः ३४ गुणिताश्चे ४०८० तिला भवन्ति । एते तिला एतैरेवाकैर्गुमिता १६६४ ६४०० वर्गसंज्ञा भवन्ति । वर्गेषु १५० भक्तेषु सत्सु लब्धाङ्काः ११०९. ७६० । लब्धाङ्केषु द्विगुणितेषु सत्सु प्राधाङ्काः २२१९५२० । एतेषामकानां त्यक्त्वाऽन्त्याद्विपमाद्वर्ग मूलं द्विघ्नं न्यसेत्समे तद्धृते लब्धवर्ग हित्वाऽमाद्विषमात्पुनः, इति रीत्या मूलगणिते कृते लब्धमूलाङ्काः १४८९ एते च तिलाः । एतेषु ३४ भक्तेषु सत्सु ४३ अङ्गुलयः अवशिष्टाः २७ तिला मूलावशेषितं सैकमिति रीत्या शिष्टतिलेण्वेकाङ्के मिलिते अगुलयः ४३ तिला २ ८ अयमेकविधस्याग्नेः पुरुषो भवति । एतत्प्रमाणेनैव शुल्बोक्तप्रकारेणाग्निमानेष्टकाकरणादीनि विधेयानि । तत्रेयं प्रक्रिया-अष्टाविंशतितिलाधिकत्रिचत्वारिंशदङ्गुलप्रमाणः पुरुषः ४३ तिलाः २८ । एकविंशत्तिलाधिकैकविंशत्यालयः २१ तिलाः ३१ पुरुषार्थम् । सार्धद्वात्रिं- शत्तिला अधिकदशाङ्गुलयः १० तिलाः ३२ पुरुषचतुर्थोऽशः । अष्टमांशो नवतिलाधि- कषडङ्गुलयः ६ तिलाः ९ पुरुषसप्तमः सपादषोडशतिलाधिपञ्चाङ्गुलय: ५ तिलाः १६ पुरुषाष्टमोऽष्टमांशप्साहितपञ्चविंशतितिलाधिकागुलिद्वयं २ तिलाः २५ पुरुषोडशो- ष्टादशतिलाधिकपञ्चदशाङ्गुलयः १५ तिलाः १८ पुरुषचतुर्थः सविशेषः षड्विंशति- तिला अधिकसप्ताङ्गुलयः ७ तिलाः २६ चतुर्थ सविशेषाधं पादोनपञ्चदशतिला अधिकषोडशागुलयः १६ तिलाः १४ त्रिगुणिताष्टमः पश्चविंशत्तितिला अधिकचतु ।