४ पटला . महादेवशास्त्रिसंकलितप्रयोग चन्द्रिकाव्याख्यासमैतम् । ३७१
नाऽऽर्ध्नुवन्तेन सुवरायन्तेनेमाँल्लोकान्समतन्वन्निति गृहपतिः प्रत्याह ॥ ३२ ॥
सर्वत्र प्रतिवचनं गृहपतेरेव । अहीनभूतेऽप्येवम् ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥
प्रजापतिं परिवदन्ति । ३३ ॥
प्रजापति परिवदन्तीति विज्ञायते ( २१-११--१३ ) इत्यापस्तम्बसूत्रम् ॥३३॥
अकुशलोऽयं प्रजापतिर्यो दꣳशमशकान्सꣳसृजेद्यः स्तेनानिति ॥ ३४॥
प्रजापतिपरिवादाः प्रजापतेराराधनाथ मुक्त्यर्थमित्यर्थः । ३४ ॥
अपि वा प्रजापतिपरिवादानां मन्त्रानधीयते - यदरष्यानि प्रजापतिः पुरश्च ससृजे गिरीन् । कर्ताsग्निश्च तद्भद्रं यद्भद्रं तन्म आ सुव ॥ यदूषा तमसा युक्त्वा दिने तेऽक्ष्णिष्ठमातपत् । अम्भश्चात्यतिघर्मश्च तथा तत्ते प्रजापतिः ( तेः ) ॥ यत्स्ते नान्यद्वृकान्दꣳशान्मशकान्यदद्याश(य)वः । तदु ते वृजिनं तेषां तद्विषं तेन तेऽमृतम् ॥प्रजापतिं दशममहर्भजध्वं मतिं कवीनामृषभं जनानाम् । सुषुक्षितिꣳ सुद्रविणं दधानो विपाप्मा लोके निदधाति देवयुमित्येतैः परिवदेयुः ॥ ३५॥
अत्र श्रुतिः-प्रजापति परिवदन्त्याप्त्येवेन तद्व्याचक्षते, इति फलार्थवादः, इति मीमांसकाः । अपि वा प्रजापतिपरिवादानां मन्त्रान्पठन्ति केचिच्छाखिनस्ते ते प्रत्येतव्याः ॥ ३५ ॥
अथ वरं वृण(णु)ते ॥ ३६॥
प्रजापतिपरिवादानन्तरं वरं वृण(ण)ते यजमानः ।। ३६ ॥
अदो नोऽस्त्विति यत्कामा भवन्ति ॥(ख० १०)॥३७ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने चतुर्थः पटलः ॥
.. यत्कामयते तस्य नाम गृह्णातीति भरद्वाजः । ' उत. वै ब्राह्मणोऽनेककामो भवति' (२१-१२-१ ) इत्यापस्तम्बः । यत्कामयते तदुच्चारयतीत्यर्थः ।। ३७ ॥ इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां - प्रयोगचन्द्रिकायां पोडशप्रश्ने चतुर्थः पटलः । .... -