१ पटलः ] महादेवशास्त्रि संकलितप्रयोगचन्द्रिकाव्यार थासमैतम् । २५.
अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ॥ ३४॥
अथ यवागूनिर्वापादूर्ध्वमुत्तरस्मै हविषे परेछुरनुष्ठेयस्य सानाय्यस्य सिद्धये पुनरपि. वत्सानपाकुर्यात्पृथक् कुर्यात् । अन्यद्गतम् ॥ ३४ ॥
यस्य सायंप्रातर्दुग्धꣳ हविरार्तिमार्च्छत्यैन्द्रं पञ्चशरावमोदनं पचेत् ॥ ३५॥
उभयोः क्रमेणाऽऽतौं क्रमेण पुरोडाशी निरुप्य सहप्रचारः पूर्ववत् । यदा पुनरनिरुक्षेऽन्यतरायणं पुरोडाशेऽन्यस्याप्यातियुगपदातिर्वा तदाऽष्टाकपालपश्शरावौं निर्वपेत् । तदस्य परिमाणमित्यर्थे लुप्ततद्धितः पञ्चशरावशब्दः पञ्चशरावपरिमितं द्रव्यमभिधत्ते । तच्च शरावेण निर्वपति त्रिजुषा द्विस्तूष्णीं स द्वादशशरावं चकै निर्वपति.. द्वादशभिर्मन्त्रैस्तूष्णीमितराणीति लिङ्गात् । इन्द्रग्रहणमत्रापि प्रदर्शनार्थम् । ऐन्द्र का माहेन्द्रं वेति समानमिति बचश्रुतेः । सानाय्यप्रतिनिधित्वं च हविषोरत एव लिकासिद्धम् । ' पयो वा औषधयः । पयः पयः । पयसैवास्मै पयोऽवरुन्धे ! (ता . ३-७-१) इति लिङ्गाच्च । तेन सानाय्यधर्मकताऽपि तयोः पूर्ववदेव वेदितव्या । कात्यायनस्तु पञ्चशरावं प्रकृत्याऽऽह- प्रतिनिधिः प्रायश्चित्तं वा देवताश्रुतेः' इति । प्रायश्चित्तार्थत्वे परतोऽप्युद्वासनाग्नेयेन्द्राग्नधर्मता हविषोरिति विशेषः । यवाग्वादीनां तु प्रतिनिधित्वं प्रदर्शितमेव सूत्रे स्पष्टमिति सानाय्यधव यथोक्ताऽनुसंधेया ॥ ३५ ॥
अग्निं प्रथमं पुरोडाशेन यजेत ॥ ३६ ॥
देवतायास्तद्धितेनैव सिद्धरुत्तरविकल्पार्थोऽनुवादः ॥ ३६ ॥
उत्तरमिन्द्रं पञ्चशरावेण ॥ ३७॥
पञ्चशरावमेवैकमिन्द्राय निरुप्य तेनैव प्रथममग्निमिष्ट्वा तत इन्द्रं यजेत, न त्वष्टाक. पाले पुरोडाशं निर्वपेदित्यर्थः । ब्राह्मणे ह्येन्द्र पञ्चशरावमोदनं निर्वपेदाग्निं देवतानां प्रथमं यजेत इति यागविधिरेवाग्नेरष्टाकपालस्य कल्पक इति प्रथमः कल्पः । ऐन्द्रादेव पञ्चशरावादग्नेर्वाचनिको याग इति द्वितीय इति द्रष्टव्यम् । उभयत्र चाऽऽययोः सह प्रदानमिष्यते विभवात् ॥ ३७ ॥
अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ॥ ३८ ॥
व्याख्यातः ॥ ३८ ॥
यस्य व्रत्येऽहन्पत्न्यनालम्भुका भवति तामपरुध्य यजेत ॥ ३९॥
व्रताहमहो व्रत्यमहस्तचौपवसथ्यम् । तत्रैव व्रतोपदेशात्तस्मिन्नहनि यदि पत्न्याविवशादनालम्भुका स्पर्शानीं स्यात्तदा तामपहाय यजेतेव, दर्शपूर्णमासाम्यामित्यर्थः । अथवा व्रतशब्दः कर्मवाची यथा शिक्षति व्रतेनेत्यादौ । तत्प्रतिनियतमहत्यमहः ।