सत्यापाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने
निर्वीर्यतां वै जातः पुरुष आशास्तेऽपशुतां गौः ॥ १५ ॥
वीर्य प्रजननशक्तिः । आशासनमिच्छा । तया च तत्कार्यं करोति । अर्थों लक्ष्येत । तदयमर्थः-पुरुषो यमो जातो वीर्योपघातं करोति । पशुश्चापशुताम् । तस्मादादर्तव्यं प्रायश्चित्तमिति ॥ १५ ॥
गायत्री पुरोनुवाक्या भवति । त्रिष्टुग्याज्या ॥ १६ ॥
मरुतो यद्धवो दिवो, या वः शर्मेति । इदं याजुषं होत्रम् ॥ १६ ॥
वैष्णवं त्रिकपालमेके समामनन्ति ॥ १७ ॥
गतः ।। १७ ॥
आग्नावैष्णवमेकादशकपालं निर्वपेद्यस्या( द्य)न्यम(स्या)ग्निषु याजयेयुर्यो वा यजेत ॥ १८ ॥
यदि प्रमादवशात्परस्याग्निषु परमनवहिता ऋत्विजो याजयेयुस्तत्रेयमिष्टिरुभयोर्यष्टुराग्निमतश्च ॥ १८ ॥
रौद्रं वास्तुमयं चरुं निर्वपेद्यत्र पशुपतिः पशूञ्छमयेत ॥ १९ ॥
यस्य पशूज्वरो मारयेत्तस्य तच्छान्त्यर्थं चरुः । वास्तु म सस्यविशेषः ॥ १९ ॥
एतया निषादस्थपतिं याजयेत् ॥ १५.४.२० ॥
निषादो नाम ब्राह्मणाच्छूद्रायामुत्पन्नः । क्षत्रियादित्यपरम् । स्थपतिमहत्तरः । निषादश्चासौ स्थपतिश्चेति निपादस्थपतिः । सोऽपि स्वर्गकामोऽनयेष्टया यजेत ॥२०॥
ननु शूदस्य कर्मानहस्य कुतः कर्माधिकारः कुतश्च तस्याग्निविद्ये तत्राऽऽह -
कृष्णाजिनं वा कूटं वाऽकर्णो वा गर्दभो दक्षिणा। हरिणो वा हरिणपृणाका वा श्यामाकपात्रो वा। द्वे वाक्याम्बू शूर्पे शय्यां वा । सा हि तस्येष्टिः ॥ २१ ॥
निषादस्य मृगघातकवृत्तेः स्वकर्मार्थसाधनविशेषः कूटम् । अकर्णः कर्णविकलः । निषादैः कृतपारचया हरिणवश्याथै विसृष्टा हारणपोतिका हारणणाका । पात्रपूरणाः श्यामाकाः श्यामाकपात्रः । शफकः प्रसृतखुरो हरिण इप्यते । सा हि तदुद्देशेन विहिता । अतस्तावत्तस्यामस्ति तस्याधिकारः । सैव च यावदर्थमस्यानिविद्ये अप्याक्षे. प्स्यतीति भावः । लौकिकानाविधिरित्येके । तत्र हविकृदाधावेति शूद्रस्येत्यादि न विस्मर्तव्यम् ॥ २१ ॥ -