पटल:], महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३.३५
15.8 अथ पञ्चदशप्रश्नेऽष्टमः पटलः ।
यदस्य पारे रजस इति जुहुयात् । यदि पशुरुपाकृतो वेपेत निषीदेद्वाश्येतोच्छ्रयेत्पलायेताकामसंज्ञपने च । यस्माद्भीषाऽवेपिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्राय मीढुष इति द्वितीयां वेपमाने ॥१॥
उपाकरणप्रभृत्या संज्ञपनाद्यदि पशुः क्रन्देत्तदा यदस्य० इति हुत्वा यस्माद्दीषेत्यनया जुहुयात् । अभिमन्त्रयेत वा पशुमित्यापस्तम्बवैखानसौ । संज्ञपनदशायां विन्द्रस्य भाग 'इत्यवेक्षणस्यापि समुच्चय इति द्रष्टव्यम् ॥ १ ॥
यस्माद्भीषा न्यषद इति द्वितीयां निषण्णे ॥ २॥
जुहुयादित्यनुवर्तते । उपाकृतस्योपवेशने त्वतयैव यस्माद्भीषा न्यषद इति विकृतया द्वितीयामाहुतिं जुहुयात् । समानमन्यत्पूर्वेणेत्यर्थः । केचित्तु तिष्ठति पशाविति प्रयाजेषु नियमात्तत्रैवैन विधिमिच्छन्ति ॥ २ ॥
उदुस्र तिष्ठ प्रतितिष्ठ मा रिषो मेमं यज्ञं यजमानं च रीरिषः । सुवर्गे लोके यजमानꣳ हि धेहि शं न एधि द्विपदे शं चतुष्पद इत्युस्रमुत्थापयेत्॥३॥
निषण्णे तं मैत्रावरुणो दण्डेनोत्थापयेदित्यापस्तम्बः । निषण्णे त्वयमध्यपरो विशेष इति भावः । उनशब्दस्य गोजातिवचनत्वाद्गन्युरेत्यविकृतो मन्त्रः ॥ ३ ॥
उच्छागेति च्छागम् | उन्मेषेति मेषम् । ऊर्ध्व ऊषुण ऊतय इति द्वितीयाम् । ऊर्ध्वो नः पाह्यꣳहसो निकेतुना विश्वꣳ समत्रिणं दह । कृधीत ऊर्ध्वां च रथाय जीवसे विदा देवेषु नो दुव इति तृतीयाम् ॥ ४॥
च्छागमेपयोस्तूच्छाग तिष्ठ उन्मेष तिष्ठेति विक्रियते । क्शायां तु जात्यनादरेणोद्वश इत्येव भवति । तत्रोच्छागेत्यस्य प्रकृत्यर्थत्वाद्विकृतिषु पश्वनेकत्वे स्त्रीपशौ च यथार्थमूहः । नोनादीनामूहो बिकृत्यर्थमेवोपदेशात् ॥ ४ ॥
यस्माद्भीषाऽवाशिष्ठा इति द्वितीयां वाश्यमाने यस्माद्भीपा समुत्क्रꣳस्था इति द्वितीयामुच्छ्रयति ॥५॥