३५४ सत्यापाढविरचितं श्रौतसूत्रम्-- [१६ प्रश्ने--
द्वादशोपसदः ॥ ४३ ॥
द्वादशाह इति शेषः । उपसत्सु द्वादशाहे संभारयजूंषि व्याचष्ट इत्यापस्तम्बः॥४३॥
अनूपसदमग्निं चिनोति ॥ ४४ ॥
पूर्ववद्व्याख्येयम् ॥ ४४ ॥
द्व्यहमेकैका चितिः ॥ ४५ ॥
द्वयहं व्यहमेकैका चितिर्भवति ॥ ४५ ॥
चतुरहमुत्तमा ॥ ४६॥
चितिर्भवति ॥ ४६ ॥
आ त्रिरात्रं चतुस्तनानि व्रताति भवन्ति ॥ ४७ ॥
आडिति मर्यादा ।। ४७ ॥
एवं त्रिस्तनानि द्विस्तनानि एकस्तनानि ॥४८॥
चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति व्यहं व्यहं व्रतानि भवन्तीति शेषः ॥ १८ ॥
भूयो व्रतमिच्छन्दध्न एकꣳ स्रुवमभ्युन्नयेत ॥ ४९॥
य एषां व्रतमिच्छेदभिपूरयितुं दध्न एकं नुवमुन्नीय नापरमुन्नयेतेति ॥ ४९ ॥
एकविꣳशतिश्छदिसदः ॥ १६.१.५० ॥
एकविशस्तोमानां प्रतिष्ठेति (ले० सं०६-२-१.) त्रिवृदादीनां ज्योतिषां तत्रान्तर्भावात् प्रतिष्ठार्थं भवति । देवतातद्धितग्रहणात् 'इन्द्रस्य सदः' (ते सं० १-३. १) इति मन्त्रगता षष्ठी व्याख्यायत इत्येके । शाखान्तरीयं पदं ब्राह्मणं दर्शयतीत्यन्ये । छदिरधिनिदधाति ( तै० सं०६-१-३०) छादनार्थ कटमुपरि निदधाति । देवता बन्धेन हि सद ऐन्द्रम् । तस्मादिन्द्रस्य सदः सदनमित्युच्यते । इन्द्रस्य प्राधान्यात् ॥ ५० ॥
संतृण्णे अधिषवणफलके ॥ (ख०३) ॥५१॥
इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने प्रथमः पटलः ॥
यस्मात्संतपणे हन तस्मादधिषवणफलके न संतृणत्ति विध्वा प्रोते न करोति । यदविषवणे न संतृगत्ति ( तै० सं० ६-२-११) इति ब्राह्मणम् । संतृण्णे अधिषवणाफलके भवत इति सूत्रे शेषः ॥ ५१ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग चन्द्रिकायां षोडशप्रश्ने प्रथमः पटलः समासः ॥ .