पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४च० पटलः]. महादेवकृतबैजयन्तीव्याख्यासमेतम् । १०३ मसोमयाजिनः सानाय्ये देवतामाह-

ऐन्द्रꣳ सांनाय्यꣳ सोमेनेष्ट्वा महेन्द्रं यजेत ।

व्यवस्थिते देवते सोमेन वैवानन्तरे दशैं महेन्द्रं यनेत । सोमात्पूर्वमिन्द्रमेवानन्तरं पूर्व- कृतसांनादयोऽकृतसांनारयो वा महेन्द्र मेव यनेत । इदानी स्वशाखीयं सोमयाजिनः पक्षान्तरमाह-

अपि वा संवत्सरं द्वौ वेन्द्रमिष्ट्वाऽग्नये व्रतपत- येऽष्टाकपालं निरुप्य कामं महेन्द्रं यजेत ।

पूर्व कृतसांनाय्यो वाऽकृतसांनाय्यो वा सोमनेष्वाऽपि संवत्सरं द्वा वा संवत्सरा. विन्द्रमेव सानाय्येनेष्वाऽग्नये ऋतपतयेऽष्टाकपालामिष्टिं कृत्वा ततो महेन्द्रं यजेत काममिति सत्यामिच्छायामग्नय इत्यादीष्टिस्ततो महेन्द्रयागः । असत्यां तु नेष्टिर्न महेन्द्रयागोऽपि विन्द्रयाग एवेति सूचितम् । कथं, निरू(रु)प्येति ल्यपाऽधिकार- संपादकत्वात् (त्वं) वदता पौर्वापर्यमेव दर्शितं, तेन नेयं नैमित्तिकेष्टिः संवत्सरेऽतीते विधीयतेऽपि तु महेन्दापेक्षायामेव विधीयत इति व्याख्यानलामात् । कल्पान्तरमाह-

औवा(र्वा) गौतमो भारद्वाजः शुश्रुवान्ग्रामणी राजन्य इति सर्वत्र कामं महेन्द्रं यजेरन् ।

इति एत इत्यर्थे वार्थे वा । और्वादयस्त्रयस्तद्वोत्राः शाखान्तरोपात्ता भन्ये स्वशा- खायां गतश्रीशब्देनोपात्ताश्च 'त्रयो वै गतश्रियः शुश्रुवान् '. इत्यादिना । शुश्रुवा- सर्ववेदास्त्रीन् । ब्राह्मणे · यमृषयस्त्रीयविदा विदुः । ऋचः सामानि यषि । सा हि श्रीरमृता सताम् ' इति श्रुतेः । गता प्राप्ता श्रीर्येन स गतश्रीः । शुश्रुवान् । 'शुभ्रवासो वै कषयः कविः कान्तदर्शनः' इति निर्वचनमपि । ग्राममिहत्तमो वैश्यानां परमसमृद्धौ श्रीशब्दः स्पष्ट एव । राजन्योऽभिषिक्तस्य राज्ञः पुत्रः । सोऽपि महदेश्वर्ययोगागतश्रीः । एते षडपि । सर्वत्रेति सोमात्पूर्वमपि पश्चाचेन्द्रमेव महेन्द्रमेव पा सांनाय्येन खेच्छयैव यजनित्वत्यर्थः । अत्र याजमान आरण्याशनम् । एवं प्राप्सनिक माप्प सायंदोहानन्तरं कर्तव्यमाह-

परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु । अपाꣳ रस ओषधीनाꣳ सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिँल्लोक इति संप्रेष्यति ।

अनियतकर्तृकं परिस्तरणं परिस्तृणीतेत्यादिबहुवचनेनोक्तम् । तत आग्नीधोऽन्यो पत्विक्परिस्तृणाति । दृष्टे संभवत्यदृष्ट कल्पना नेति भाण्यकृत् । तदिदं व्याख्यान ' । क.ग, च, छ. ज. अ.जाट... निरूप्य ।