पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १०पटलः] महादेवंकृतवैजयन्तीव्याख्यासमेतम् । १०७

इति पूर्वेयुर्विधिः समाप्तः। भय श्वो भूते विधिः।

प्रातरग्निहोत्रꣳ हुत्वोदित आदित्येपौर्णमास्या- स्तन्त्रं प्रक्रमयति प्रागुदयादमावास्यायाः ।

भत्राविशेषात्प्रातरग्निहोत्रं हुत्वोदित इति श्रवणात्पर्वद्वयेऽपि पूर्वमृदयाद्धोमनियमः । तत्रोपक्रमे तु व्यवस्थेति समजतं सूत्रम् । उदित आदित्ये प्रातरग्निहोत्रं हुस्वा पौर्ण- मास्यास्तत्रमित्येतत्तु व्याख्यानमप्तमञ्जतम् । प्रक्रमयतीति स्वार्थ णिच्, परिकर्मिणः प्रक्रमार्थ प्रेरयतीत्या वा।

कर्मणे वामिति पाणी प्रक्षाल्य ।

शकेयमित्यन्तः । अनिः प्रक्षालनमदृष्ट संस्कारः कर्मणि शक्तत्वलक्षणो मन्त्रलिङ्गा- द्वाक्यशेषाच । अत एव नोलपराजिस्तरणमात्रात्पूर्वभावित्वेन तावन्मात्रामपि तु सर्व- पज्ञापत्वेनामिति न्यायसिद्धम् ।

यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्येति गार्हपत्यात्संततामुलपराजीꣳ स्तृणात्याहवनीयात्तूष्णीं दक्षिणां तूष्णीमुत्तराम् ।

गार्हपत्यायतनादारम्याऽऽहवनीयायतनमा मर्यादीकृत्य विच्छेदवनितां शुष्कदर्भ- पक्ति तनोति । तूष्णीमिति प्रत्येकश्रुतिपाठस्य शाखान्तरीयस्य प्रदर्शनार्थम् । कि प्रयोजनं पाठप्रदर्शनस्य, तूष्णौमिति श्रुत्या न्यायप्राप्तमन्त्रावृत्तिनिवारणं यथा स्यादिति। सपा हि राज्या भूतमाव्युपयोगाभाकान्न द्वितीयया संस्कार्यत्वं बोध्यते, गार्हपत्याइन. नीययोरपि पञ्चमीनिर्दिष्टयान संस्कार्यत्वं मन्त्रान्तयोरप्रतीतेश्च यज्ञस्य संतानकरण- मात्र प्रतीयते यज्ञस्याविच्छेदायेति वाक्यशेषाच्च । तस्मादारादुपकारकं प्रधानकर्म । तया चास्मच्छाखायां यद्यप्याहवनीयासंतनोतीत्येतायतैके कर्म विधीयते तथाऽपि शाखान्तरे गुणमेदेन द्वे अन्ये दक्षिणोत्तरे राजी विधीयते । तथा च त्रीण्येतानि प्रधान. कर्मण्येवेति । यत्रैकस्मिन्निति न्यायेन मन्त्राभ्यासनिवारणं न संमवति, ततस्तु प्रतिप्रधान- मावृत्तिरिति मन्त्रावृत्तौ प्राप्तायां तूष्णीमिति पाठप्रदर्शनमावृत्तिनिवारणामिति सिद्धम् ।

दक्षिणेनाऽऽहवनीयं ब्रह्मयजयानयोः सदने करोति ।

आहवनीयस्यादूरे दक्षिणभागे याज्ञिकैस्तृणैरुपवेशनार्थमासने करोति । नमसदना- तृणं निरस्येति दर्शनात्तृणमये आसने । तत्रारनिपरिमाणाहवनीयायतनस्य दक्षिणत भाञ्जस्पेनोमयोरुपवेधुमशक्यत्वासासाव्यवधानयोश्वामिने सूत्रे पूर्व ब्रह्मणेऽपर .