पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र- प्रसघनमित्युच्यते । हंसस्य मुखं पञ्चपुटस्याधःप्रणालिका तत्सदृशप्रणालिकमित्यर्थः । खुम्गतं द्रव्यं प्रणाच्या गच्छदग्नौ पतति येन प्रदेशेन विभागं गच्छति तत्प्रसेचन काष्ठानमनिमोऽवधिस्तदेवानं यासां ताः । मवन्तीत्यनेन नानाश्रुतिसामर्थ्यसिद्धतोक्का । स्वक्सारा वे वृक्षा इति श्रुतेः, स्वतः सप्तम्यर्थे तसिळ, त्वग्भागे बिलमाज्यादिद्रव्यसं- ग्रहार्थ खातं यासा तास्तथा । द्वेधा पाटितस्य काष्ठस्यान्तर्भागे विलं न कार्य किंतु स्वरभागे समीकृत्य तत्रैव बिलम् । अपाटितस्य तु मध्यभागादधिकमागे बिल न्यूनमागे मुझं त्वक्समीपे यथा विलं भवति तथा कार्यमित्यर्थः । वायसस्य पुच्छमिव पुच्छं यासामिति दण्डमूले स्थूलाः परिणाहे नतास्तत ऊर्ध्व पात्रपर्यन्तं सूक्ष्मं किंचिदित्यर्थः अत्रैकेषामिति विशेषदर्शनार्थ न विकल्पार्थम् । हंसमुख्यो वायसपुच्छय इत्येतयोगें। णयोरविरोधात् । हस्तिन ओष्ठ इवौष्ठा यासामिति विरुद्धधर्मोपसंहारेण विकल्पप्रति- पादनार्थमेकेषामिति वचनम् । हंसमुख्य इत्यनेन हस्त्योष्ठय इत्यस्य विकल्पः । यथा- शोमं कार्या इति बौधायनः । मरद्वाजः-अङ्गुष्ठपर्वमात्रबिलः खुवो भवस्यर्धप्रादेश- मात्रविलाः खुच इति । मजल्याकृति पात्रं सुचामिति शास्त्रान्तरम् ।

आज्यस्थालीं कुटरुम् ।

भाज्यनिर्वापार्था स्थाली मृन्मयो । कुटहः पाषाणः कुटनसाधनम् ।

पात्रीं मेक्षणम् ।

पिष्टसंवपनार्थी मृन्मय्येव । मेक्षणं पिष्टस्य मेलनार्थ दीसदृशं वारणम् ।

वेदं प्राशित्रहरणम् ।

वेदो व्याख्यातः । ब्रह्मणेऽवदानं प्राशितं येन हियते तत्पात्रं प्राशिवहरणं, गोकर्णाकृति चमसाकृतीति भरद्वाजः । आदर्शाकृतीति कात्यायनः ।

प्रणीताप्रणयनमिडापात्रं च ।

प्रणीता आपः प्रणीयन्ते येन स चमसो वारणः । तथेडावदानाधानार्थमपि चमसो द्रोणीकंसमृन्मये कास्य पात्रे (1) प्रणयनार्थम् । चकारो द्वाभ्यां संवन्धनीयः ।

एकामन्वाहार्यस्थालीम् ।

एकामित्यर्थसिद्धम् । मानुषे पात्रे च न द्वंद्वसंपत्तिः । अन्वाहार्यो त्यत्तिभ्यः परिक्रयणार्थ वीयतेऽतो मानुषम् । सह सर्वाणि मानुषाणीति श्रुतेरन्येषाममावाचार्या- देकस्यैव प्रयोगस्तस्माच पूर्वण दैवेन सहकत्वकरणेन द्वंद्वसंपत्ति कार्येत्यर्थः । एतेनान्यत्र विकृतिबपि पदार्थद्वयमप्येकीकृत्य यथाकथंचिदेवेषु वसंपत्तिः कार्येति ज्ञापितम् ।