१५५ कर्षति । ६५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । स्वायेति सर्वत्र ज्ञेयम् । शत्रोरमावे पाप्नैव शत्रुः प्रतिकूलत्वात्पाप्मानमेव भ्रातृव्यमा पहन्तीति लिङ्गाच्च ।
शतभृष्टिरसि वानस्पत्यो द्विषतो वध इत्युत्करे स्फ्यमुदस्यति ।
उत्करप्रदेशे स्पयं सनति किंचिदूरत एवोध मुञ्चति यथा मुक्त उत्करे पतति तथोदस्यति।
पुरस्तात्प्रत्ययञ्चꣳ स्थविमत उपोहति ।
स्फ्पमुक्करे निरस्तमादायोत्करस्य पूर्वदिश्यत्कराभिमुख स्थूलप्रदेशान्मुचिभदेशे धृत्वा
नानवनिज्य हस्तौ पात्राणि पराहण्यान्न वेदिं परिमृशत्यास्तरणात् ।
हस्तावप्रक्षाल्य पात्राणि न संस्पृशेन च वेदिमास्तरणात्प्रक्षाल्यापि हस्तौ स्तरणा- त्पूर्व वेदिं न स्पृशेविति सामर्थ्यात् । अन्यथा स्तरणात्पूर्वमेव प्रक्षालनं विधायानेकानि कर्माणि विहितानि वेदिस्तरणमिति का प्रसङ्गोऽप्रक्षालितहस्तस्य स्तरणात्पूर्व वेदिसंस्पर्शे।
हस्ताववनेनिक्ते स्फ्यं प्रक्षालयति नाग्रं परिमृशति ।
पूर्व धातुद्वयमेकार्थ तथाऽपि मिनगौ श्रुत्यनुकरणार्थो स्फ्षप्रक्षालनसमये नाम- भार्ग हस्तेन स्पृशति प्रक्षालनप्रतिषेधो नाग्रस्य किंतु स्पर्शनमावप्रतिषेधः । अन्यथाs- ग्रवन स्फ्यं प्रक्षालयतीत्येव लाघवेन ब्रूयात् । अनेनेतरमागप्रक्षालनं नोदकधारामा- त्रेण कार्यमपि तु हस्तेनापि मलापकर्षणमपि कार्यामित्यर्थः ।
उत्तरेण प्रणीता इध्माबर्हिरुपसादयति दक्षिणमिध्ममुत्तरं बर्हिः ।। २२ ।।
इति हिरण्यकेशिसूत्रे प्रथमपश्ने षष्ठः पटलः ॥ ६ ॥
प्रथमममिध्मावहिरिति समस्तग्रहणं सहोमे आनीय दक्षिणोत्तरभावेन हस्तद्वये. नाऽऽसादयात सहैवेति गम्यते । इति सत्यापादहिरण्यकशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेवन कुतायां प्रथमप्रश्ने षष्ठः पटला ॥६॥ १ख. "नि तत्र का