पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ सत्याषाढविरचितं श्रौतसूत्रं- [२द्वितीयपने- यथेतं प्रत्येत्य-

समवदाय स्विष्टकृता प्रचरति ।

एकत्रावदानं समवदान स्विष्टकृत्संज्ञको यागः प्रधानहविःप्रतिपत्तिरूपतया दृष्टार्थत्वेन देवतोद्देशेन दानरूपत्वाददृष्टार्थत्वेन च व्यात्मकः । पुरोडाशप्तांनाय्ययाग. स्वादुपस्तरणादि । न मा भेरिति हविःशेषत्वात् ।

यदनुपूर्वाणि प्रदीयन्ते सर्वेभ्प उत्तरार्धेभ्यः सकृत्सकृदवद्यति ।

यद्यथाऽनु पूर्व पूर्वमनतिक्रम्य विद्यन्ते तानि तथा, यथाऽनुपूर्वाणि प्रदीयन्ते प्रधान- देवताभ्यस्तथाऽनुपूर्वेभ्यः सर्वेभ्यो हविःशेषेभ्यः सकृत्सकृदुत्तरार्धेभ्योऽवद्यति, प्रदी. यन्ते प्रत्तानीत्यर्थः । सकृदवदायाङ्गुष्ठपूर्वाधिक यथायोग्य हस्तेन स्नुवेण च ।

द्विः पञ्चावत्तिनः ।

पूर्वधर्मनिवृत्यर्थ सद्धिरित्युक्तम् ।

द्विरभिघारयति न हविःशेषान्प्रत्यभिघारयति ।

पूर्व सकृत्प्राप्ताभिधारणे विशेषविधिः प्रत्यभिधारणामावो न्यायेन प्रदर्शितस्तं म्यायं प्रदर्शयितुं प्रतिषेधो हविःशेषग्रहणेन दर्शितः । नेदं हविः किं तु वषट्कारद- तस्य शेषोऽतो न हविरभिघारणप्राप्तिरिति तात्पर्यम् । वषटकारेण प्रदान स्विष्टकृत्य- प्यस्तीति हविष्वमाशयोकं नेति, प्रत्तस्यैव विधिवलादानेऽपि शेषप्रतिपत्तिरेव । स्विष्ट कृदिति चोक्तं नात्र धौवस्य स्विष्टकृपर्थमवदानं, यान्यनुपूर्व प्रदीयन्ते तेषामिति नियमाद्धौवस्याद्यापि न हविःशेषत्वम् । तस्य सर्वयागार्थत्वेन यावद्गृहीत लावदेव तदर्थं न तु निर्वापसमये वा धुवायां ग्रहणसमये वा पृथक्पृथग्देवतानिर्दे. शोऽस्ति । येनोत्पत्तिविधाकैकार्थत्वं स्यात् । तस्माद्यावगृहीतं तावदेव वपद्कारेण दत्तं न तु ध्रुवागतमपि यथा वेदिगतमपि पुरोडाशसांनाश्यहविर्वषट्कारेण दीयते । कुतः-ध्रौवस्य सर्वयोगार्थत्वादेकस्मिन्यागे दातुमशक्यत्वात् । न्यायविद्भिश्च साधित नोपांशुयानार्थस्य विष्टकृदवदानमिति ।

उत्तरार्धपूर्वार्धेऽसꣳसक्तामितराभिराहुतिभिर्जुहोति ।

पूर्वमुत्तरार्धदाक्षिणार्धशब्दाभ्यामाज्यभागहोमस्थानमुक्कं, रात्रैतस्य स्थानं मा भूदिति वक्तुमुत्तरार्धपूर्वार्ध इत्युक्तम् । तेन तावन्तरेणेतरा जुहोतीत्युक्तत्वात्किचिदुत्तर आग्नेय आज्यभागस्तस्मास्किंचिदक्षिणतोऽसंस्पृष्टामाघार प्रधानामुतिभिः स्विष्ठकृदाहुति जुहोतीत्युक्तम् । संनयतो दश पुरोडाशस्यावदानं प्रथमं ततो मुख्यत्वेन बुक्पार्श्वन होमे प्राप्ते शतदनोद्वित्वेन भूयस्त्वं मुख्यत्वाबलीय इति मुखैन(ग)व होमः । अग्नये विष्टकृत इदं न ममाग्नेः स्विष्टकृतोऽहमिति याजमानम् । ननु कथमग्निः विष्टकृदेव १ क. ग. च. छ. ट, ठ, प्रतिशेषो । २ क. ग, च, ठ, "बैका ।