पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २१४ . - सत्याषाढविरचितं श्रौतसूत्र- [ २ द्वितीयप्रने-

यदुपभृत्याज्यं तज्जुह्वामानीय तेन सकृदतिक्रान्तस्त्रीननूयाजान्यजति ।

व्याख्यातम् ।

देवान्यजेति प्रथममनूयाजꣳ संप्रेष्यति यज यजेत्युत्तरौ ।

अनूयाजसंप्रेषे प्राले देवान्यजेति बहुवचनेन प्रथमेऽनुयाजे होतारं संप्रेष्यतीत्यर्थः । काललक्षणेयं सर्वानुयानार्थमत्रैव संप्रेषप्रदर्शनार्थम् ! कथं, देवानिति त्रयाणां समान- देवताविशेषणेन निर्देशात्पुनः प्रेषः केवल एतद्योः ।

अग्रेणाऽऽघारसंभेदं पश्चात्पश्चात्समिधि जुहोति ।

अनूयाजसमिध्येव प्रथमं प्राग्भागे जुहोति । ततः पश्चाद्वितीयम् । अङ्गिरसो मेति याजमानम् । ततः पश्चात्समिध्येव तृतीयं त्रयोऽप्याघारसमैदात्प्राम्भाग एव । तत्र विशेषमाह-

प्राञ्चमुत्तमं दीर्घꣳ संततं तेनेतराननुसंभिनत्ति ।

इतरौ द्वितीयप्रथमौ तेन तृतीयेन तृतीयस्य होमधास्याऽनुसंमिनत्ति मध्येऽनुसंश्ले- षयेदित्यर्थः। स्पष्टमन्यत् ।

प्रत्याक्रम्य यथायतनꣳ स्रुचौ सादयित्वा ।

स्पष्टार्थम् ।

वाजवतीभ्यां व्यूहति ।

वाजवतीम्यामृग्म्यां व्यूहनपर्यन्तं करोतीत्यर्थः । तदेवाऽऽह--

वाजस्य मा प्रसवेनेति दक्षिणेनोत्तानेन सप्रस्तरां जुहूमुद्गृह्णात्यथा सपत्नाꣳ इन्द्रो म इति नीचा सव्येनोपभृतं निगृह्णात्युद्ग्राभं चेति जुहूमुद्गृह्णाति निग्राभं चेत्युपभृतं निगृह्णाति ब्रह्म देवा अवीवृधन्निति दक्षिणेनो- त्तानेन प्राचीं जुहूं प्रोहत्यथा सपत्नानिन्द्राग्नी म इति नीचा सव्येनोपभृतं प्रतीचीं बहिर्वेदि निरस्यति ।

प्रथमेऽर्धर्चे मन्त्री ततस्त्रयस्तावत एव मन्त्रा अथा सपत्नानित्यर्धमन्त्रः । दक्षिणेन हस्तेनोत्तानेनोपरितलेनाधस्ताज्जुहूप्रस्तरयोः कृतेन प्रस्तर आसादितां जुहूं प्रस्तरेण सहोर्ध्वमुन्नयति । नीचा हस्तेन वामेनोपभृतमुपरिष्टाद्धस्तं कृत्वा गृहीत्वा तां निग- हाति बर्हिषा श्लेषयति किंचिढमिव, पुनरपि तथैव क्रमेणोद्ग्राभं च निग्राभं चेत्ये. ताभ्याम् । प्राची जुहूं प्राची दिश प्रति प्रागनां प्रोहत्यतिवायति वेद्यामेव । बहिर्वेद्युपभूतमेव निरस्यति त्यजति ।