पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ २१८ सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने-

आशास्तेऽयं यजमानोऽसावित्युच्यमानेऽपिसृज्य प्रस्तरमग्नीद्गमयेति संप्रेष्यति।

आशास्त इति होत्रोच्यमाने संप्रेष्यत्यग्नोधम् ।

त्रिरञ्जलिनाऽऽग्नीध्रः प्रस्तरमूर्ध्वꣳ समुद्यौति ।

त्रिरुक्षिपत्यञ्जलिना प्रस्तरमायतन एव । रोहितनेत्यादि याजमानम् । ततो विसृजत्याग्नीध्रः प्रस्तरमायतने ।

अनुप्रहरेति संप्रेष्यति स्वगातनुभ्यः स्वाहेति प्रस्तरस्य तृणमपात्तमाग्नीध्रोऽनुप्रहरति ।

अपात्तमपाकृत्य प्रज्ञातं स्थापितम् । स्वगातनुभ्य इदं दिवः खोल इति याजमा- नम् । प्रस्तरं लक्षीकृत्य प्रहरत्यनुप्रहरति ।

एतदेतदिति त्रिरङ्गुल्याऽन्ववदिशति।

तत्तृणं प्रहृतं तन्याऽध्वर्युराग्नीधमनुलक्षीकृत्यान्ववदिशति कथयति । सकृन्मन्त्र इति न्याय्यम् ।

आयुष्पा अग्नेऽस्यायुर्मे पाहीति यथा रूपं प्राणायतनानि संमृशति ।

प्राणा इन्द्रियाणि तेषामायतनानि स्थानानि | आयुष्पा इति नासारन्ध्र सकृन्मन्त्रः । संमृशति चक्षुष्पा इत्यनेन सकृच्चक्षुषी । इदमेव यथारूपं यथालिङ्गमित्युक्तम् ।

ध्रुवाऽसीतीमामभिमृशति ।

इमां पृथ्वीम् । अन्तर्वेदीत्यापस्तम्बः ।

संवदस्वेत्याग्नीध्रः संप्रेष्यति ।

मया सह संवादं कुरु इति संप्रेष्यत्यध्वर्युम् ।

अगा३नग्नीदित्यध्वर्युराह ।

आग्नीधे प्रत्याह । अगानगच्छतिक प्रस्तरोऽग्निम् । एवमध्वर्युणा पृष्टे-

अगन्नित्याग्नीध्रः ।

आह । गतः प्रस्तरोऽग्निमित्यर्थः ।

श्रावयेत्यध्वर्युः श्रौषडित्याग्नीध्रः ।

पष्टम् ।

१ क, ग्व. ग. च. छ. ट. 3. “मान इत्य' । २ क, ख, ग, च. छ. स. उ. नेऽमी' । ३ के. ख, ग. छ, न.ट,, तदि।