पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सत्याषाढविरचितं श्रौतसूत्र- (१प्रथमप्रश्ने- यदा वेदेन मानेन ज्ञापिता कर्मसंततिः । सा वैदिकी तद्गतकं कर्म वैदिकमुच्यते ॥ १६ ॥ यस्य नास्ति स्वशाखायां साकल्यं नान्यशाखया । एकप्रकरणत्वेन पूरितं यत्प्रकीर्णकः ॥ १७ ॥ नानाप्रकरणाधीतमन्त्रब्राह्मणभागगैः । वाक्यैरेकत्र पुरुषैरानीतविहितं तु यत् ॥ १८ ॥ कर्म प्रोक्तं लौकिकं तन्मन्वादिभ्योऽवगम्यते । यत्प्रत्यक्षानुपूर्या स्वपाठो नास्ति नु वेदगः ॥ १९ ॥ प्रत्यक्षोऽपि स्यूषीणां स वेदोऽप्रत्यक्ष इष्यते । एकप्रघट्टकेनान्यः प्रत्यक्ष नोपलभ्यते ॥ २० ॥ तस्मात्तत्रापि वेदत्वमुपचारादिति स्थितिः । न हि प्रकीर्णको वेदो गृह्यते विधिना तु सः ॥ २१ ॥ तस्मात्तस्य त्ववेदत्वं तेन प्रोकोऽप्यवैदिकः । लौकिकः स्मार्त इत्युक्तो मन्त्रादिस्मृतिशासनात् ॥ २३ ॥ स एव क्वचिदन्यार्थमन्त्रैर्वाऽन्यार्थवादकैः । प्रसङ्गेनानुद्यमानः प्राप्तो नासो विधि विना ॥ २३ ।। तस्यापि प्राप्तये तेभ्यो विधिरेव प्रकल्प्यते । सोऽपि लौकिक इत्युक्तः स्मार्तो वा न तु वैदिकः ।। २४ ॥ ननु चैकाग्निकाण्ड तु प्रत्यक्षो वेद ईयते । पाठेन गृह्यते कैश्चिदतोऽप्रत्यक्षताऽस्य न ॥ २५ ॥ तेन यद्विहितं कर्म स्मात वा लौकिकं कथम् ॥ सत्यं तत्प्रातिशाख्यत्वाच्छ्रौततुल्यं तथाऽपि तु ॥ २६ ॥ तत्पूरणाय मन्त्रा हि श्रौतकाण्डेऽप्यवस्थिताः । श्रौतन कर्मणा नैव संबद्धा निर्गतास्ततः २७ ॥ लिङ्गरेकाग्निकमा ( वाऽs )लिङ्ग्याङ्गत्वमुपागताः । मन्त्रा एवात्र ये केचिद्विधिहीनास्तदर्थगाः ॥ २८ ॥ विधयोऽप्यागता ये चाबद्धाः प्रकरणेन हि । मन्त्रार्थवादावयवैः कल्पिता अपि पूर्ववत् ।। २९ ॥ वैतानिकाशितोऽन्यत्वागृह्यः स्मार्तोऽप्यलौकिकः । भग्निः कर्माङ्गतां प्राप्त एकाग्निरिति चोदितः ॥३०॥ १क.ग. च. छ. कमन्वद। ३ क. ग, च. छ. 'कल्पते ।