पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. २५६ सत्याषाढविरचितं श्रौतसूत्रं- [२ द्वितीयप्रश्ने-

तत्र यानि श्रपणसंयुक्तानि तान्यौपासने क्रियन्ते ।

होमस्त्वतिप्रणीतेऽपि न तत्र पाकः । स तत्समवेतनिपिपात्रासादनानि तान्यौपा- सने नियम्यन्ते ।

अतिप्रणीत आहुतीर्जुहोति ।

एकोल्मुके प्रणीते तत्रैव होमः । तथाच होमसमय एव प्रणयनम् ।

यस्मिञ्जुहोति तमुपतिष्ठते ।

अतिप्रणीतमेवोपतिष्ठत इत्यर्थः । भाष्यकृता व्याख्यातं यस्मिञ्जुहोतीति गुरुनिर्दे- शाद्विकल्प इति गुरुनिर्देशस्यास्ति फलं दक्षिणाग्नौ पिण्डपितृयज्ञे कृतेऽपि गार्हपत्यस्यो- पस्थानवदौपासनस्य मा मूदित्येवमर्थ यस्मिन्नित्याद्युक्तम् ।

अत्र गार्हपत्यप्रवादः परिलुप्यते ।। २० ।।

इति हिरण्यकेशिसूत्रस्य द्वितीयप्रश्ने सप्तमः पटलः ।। ७ ।।

गार्हपत्यपदं लुप्यते नोह एतस्यापि पिण्डपितृयज्ञस्य प्रकृतित्वात् । नापि लक्ष. णया व्याख्या प्रकृते गार्हपत्यमुपतिष्ठत इति सति विधौ छैन्या गार्हपत्यमुपतिष्ठत इति द्वितीयाश्रुतिबलेन व्याख्या प्रकृते यस्मिञ्जुहोति तमुपतिष्ठत इत्येव विधौ द्वाराभावालोप एव गार्हपत्यपदस्येति युक्तम् । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोग- वैजयन्त्यां द्वितीयप्रश्ने सप्तमः पटलः ॥७॥

2.8 अथ द्वितीयप्रश्नेऽष्टमः पटलः ।

अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि देव सवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टु- भेऽनुष्टुग्बृहत्यै बृहती पङ्क्त्यै पङ्क्तिः प्रजापतये प्रजापति- र्विश्वेभ्यो देवेभ्यो विश्वे देवा बृहस्पतये बृहस्पतिर्देवानां ब्रह्माऽहं मनुष्याणां भूर्भुवः सुवरिति वृतो ब्रह्मा जपति ।

पजमानेन भूपत इति वृतो जपति । अत्राऽऽचमनं ब्रह्मणो विहितं वैखानसेन । घ. छ, ज, झ. म, द, 'कान्यौपासने तानि की। २ घ. क. ज. स. म. द. ति ब्रह्मा वृतो ज।