पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ सत्याषाढविरचितं श्रौतसूत्रं- [ ३ तृतीयपने- रेण सहकारिगुणतरतमभावेन नियतमेव फलं विद्यमानं न केनापि त्यज्यते । कुतः, प्रमाणात् । यतस्तानि कर्माणि शब्दलक्षणानि धार्यन्ते । शब्दो निरपेक्षा विधिप्रत्यय- श्रुतिः । विधिर्हि विधेयकर्मणि फलसाधनता विना न पर्यवस्यतीति मावः । विधिरि- स्युक्ते वाक्यमपि स्यात्तत्रापि विधिशब्दर्शनात्तत्समभिव्याहारात्मकं न शब्दमात्रं स शब्दो लक्षणमन्यार्थव्यावृत्त्या प्रमाणं येषां तानि विधिलक्षणानि । कर्माणीत्युक्तेऽपि पुनर्वचनं वाक्याय फलासंबन्धे निवारणार्थम् । कथम् । इत्यम्-कर्मसाध्यं फलं श्रेयो निश्चितं नियतानि तु । कर्माणि विहितान्येव विधिश्रुत्याऽनपेक्षया । तथैव फललाभान्न वाक्यभेदः प्रसज्यते । विधिश्रुत्यैव सर्वत्र भावनैवेष्टसाधनम् ॥ गम्यतेऽन्यत्र वाक्येन तदेवेष्टं विशिष्यते । वाक्यबोध्ये यदुद्देश्ये द्वे यत्र स्तस्तदैव तु वाक्यभेदो भवेन्नायं श्रुत्यैकोद्देश्यबोधने । इष्टसाधनतावेदिविधिश्रुत्येकगोचरः ॥ भावनाऽपीष्टसाध्याय साकाङ्क्षाऽनिष्टरूपिणम् । धात्वर्थमाददानैव निराकाङ्क्षा मवेत्कथम् ।। धात्वर्थः करणं सोऽपि नेतिकर्तव्यतां स्वतः । गृह्णीयान्नियतेप्वेषा दृश्यमाना विरुध्यते ॥ प्रायश्चित्तेन जन्ये हि पाप्मनाशे प्रवर्तताम् । नाजन्ये करणानिष्टामावे पूर्वमपि स्थिते ।। शब्दान्तरानवच्छेदादिष्टमिष्टमप्तावधि । सकृच्छ्रुत्या वेदितं तदभ्यासै विरुध्यते ।। औदासीन्येन विहितं यथा वैदिककर्मणि । फलमभ्यासतः प्राप्यं सामर्थ्यादेवमत्र हि ॥ श्रुत्या पदान्तरवशान्नाभ्यासविहितं तु यत् । तत्तथैव कृतं कर्म निःश्रेयसकरं परम् ॥ अवश्यं भवताऽप्येषां नियतानां मुमुक्षुणाम् । कर्तव्यताऽङ्गी क्रियतेऽन्यथा मोक्षः कथं भवेत् ॥ दुरितैः प्रतिबद्धो हि न कर्मशतकैरपि । जायतेऽतस्तेभ्य एव निःश्रेयसमपीप्यताम् ।। यद्यन्येभ्योऽपि जायेत कर्मभ्यो न निवार्यते । तेषामकरणे नास्ति दुरितं फलघातकृत् ॥