पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ सत्यापातविरचितं श्रौतसूत्र- ( तृतीयपने- [ श्तृनीयप्रश्ने-

स्मार्तधर्माणां शूदेखि प्राप्तिनिवारणार्थम् । ब्राह्मणेन विहिताः श्रौता एतदेव स्फुटयितुं यज्ञा इत्युक्तम् । यज्ञशब्देन श्रौतस्वेनोपलक्षिता आधानादयः । अयमर्थः श्रूयते.. वसन्ते ब्राह्मणोऽनीनादधीत मीध्ये राजन्यः शरदि वैश्य इति । तेनाऽऽधानाभावाद- नग्निः शूद्रः सोऽग्निसाध्ये कर्मणि कथं प्रवर्तिप्यते । आत्मार्थ चाऽऽधीयन्तेऽनयो न परार्थी आत्मनेपदं यत्र भवत्यावधीतेति । तेन ब्राह्मणादय एवाऽऽघानेनाग्निमुत्पाद- यितुं समर्धा न शूदा आधानाभावात् । अतः शूद्रस्यानाधिकारः । ननु सन्ति चान्या- नि देर्शनानि यः शूद्रस्याप्यधिकारो गम्यते । हविष्कदाहानविशेष प्रकृत्योच्यते- आधावेति शूद्रस्य । तथा व्रतविशेषस्तु शूद्रस्य । तथा पितृमेधेऽष्ठीवघ्नं शूद्रस्येति । उच्यते-न शूद्रस्याधिकार इत्युक्तमेव । यानि पुनर्दर्शनान्युक्तानि तानि रथकारवि- पयाणि । रथकारस्य हि शूदसंबन्धाच्छूद्रत्वमुच्यते । करिण्यां हि स जातः के करिणी शूद्रीदुहितेति । तथा निषादविषयाण्यपि तस्यापि शूदत्वात् । अथ वा ब्राह्मणरा- भन्यवैश्यानामेवाध्ययनं श्रूयते-वसन्ते ब्राह्मणमित्यादि । उपनयनं चाध्ययनार्थम् । मतस्तदभावादवैधत्वादनाधिकारः शूद्रस्य । अपि च शूद्रस्य प्रतिषेधोऽध्ययने प्रतिश्र- वणे अपुजतुभ्यां श्रोत्रपरिपूरणमदाहरणे जिह्वाच्छेदो धारणे शरीरमेद इति । तस्माद- वैधत्वाच्छूद्रो नाधिक्रियत इति । तदिदमेक्कारेणोक्तं यल्लिनान्यथासिद्धिरध्ययनाभावश्च । न च स्त्रीणामङ्गत्वमात्रेण यावदुपयुक्तं वेदाध्ययनं न तु कर्माधिकार इति वाच्यम् । यापत्योर्न विभागो विद्यते पाणिग्नहणादि सहवं कर्मसु । तथा पुण्यक्रियासु द्रव्य- परिग्रहेषु न हि भर्तृविप्रवासे स्त्रिया नैमित्तिके दाने स्तेयमित्युपदिशन्तीति । स्त्रीणाम- प्यधिकारं वक्ष्यत्याचार्यों धर्मेषु । कात्यायन:-ब्राह्मणोऽनीनादधीत स्वर्गकामो यजेतेति । विशिष्टलिङ्गश्रवणास्त्रिया अनधिकार प्राप्त इदमाह-स्त्री चाविशेषास्त्री चाधिक्रियते । कुत एतद्यस्माच्छ्रयमाणमपि लिङ्गं न विशेषकं भवत्यतो न पुंसामेवाधि. कार इति । उद्दिश्यमानविशेषणमेतत्स्वर्गकामो यजेतेति । विधिसंस्पर्शाभावादविवक्षित लिहं संख्या च । यत्र पुनर्विधिसंस्पर्शोऽस्ति तत्र लिङ्ग संख्या च विवक्षिते । यथा पशुमालभेतेत्यत्र तद्विशेषणं पुंस्त्वमेकत्वं चोभयं विधीयते । विशिष्टपश्चालम्मोऽन्यथा न भवति । तस्मास्त्रिया अप्यधिकारः । दर्शनाच । दृश्यते चायमों यथा स्त्रिया अप्यधिकार इति । मेखलया यजमानं दीक्षयति योक्त्रेण पत्नीमिति । योक्त्राविधि- परे वाक्ये पत्न्या अपयधिकारं दर्शयति । सा च पुंसा सहाधिक्रियते न पृथक्रिया फलं च सकलमेकैकस्य भवति । न विभागेन स्वर्गकामो यजेतेत्यनेन यथा यजमानोऽभि- धीयत एवं पत्न्यपीति । यथा यागेन यजमानः फलं साधयति तथा पन्यपीति । वाक्यान्तरेण सह क्रिया तयोस्तथा च श्रवणम् -- क. ग. ठ, ग. दर्शितानि । २ ख. 'तत् । भविशेषात् । यस्मा ।