पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[तृतीयपने- २९६ सत्याषाढविरचितं श्रौतसूत्र-

अनूराधेष्वृद्धिकामः

ऋद्धिः समृद्धिः ।

श्रोणायां पुष्टिकामः ।

पुष्टिः पुत्रादिभाग्यम् ।

प्रोष्ठपदेषु ब्रह्मवर्चसकामः ।

गतम् ।

सूर्यनक्षत्रे वा ।

हस्ते वेदं फलमित्यर्थः ।

अथो खलु यदैवैतꣳ श्रद्धोपनमेत्तदाऽऽदधीत ।। २ ।।

ब्राह्मणमेवेदं पठितम् । न नियमो वर्णविशेषेण कामेन वा नक्षत्रेषु यानि कान्यानि नक्षत्राण्युक्तानि तेष्वेव सर्वेषु सत्यां श्रद्धायामादधीतेत्यर्थः । तदुक्तमाप- स्तम्बेन -सर्वाणि नित्यवदेके समामनन्तीति । सर्वाणि काम्यानि । अत्र भरद्वाजः- अथातः श्रद्दधानस्यतु सूक्षैम्न नक्षत्रमिति । बौधायनस्त्वातुरविषयमित्याह ।

वसन्तो ब्राह्मणस्याऽऽधानकालः ।

चैत्रवैशाखौ मीनमेषयोऽऽऽदित्यस्तिष्ठति स वसन्तः । मुखं वा एतहतूनां यद्वसन्त इति । मुखं वा एतत्संवत्सरस्य यत्फल्गुनी पूर्णमास इति ।

ग्रीष्मो हेमन्तश्च राजन्यस्य ।

वसन्तादनन्तरं माप्तद्वयं ग्रीष्मः । हेमन्तो मार्गशीर्षपोषौ वृश्चिकधनुषोर्वा रविः ।

वर्षा रथकारस्य ।

श्रावणभाद्रपदौ मिथुनकर्कटयो रविर्वा ।

शरद्वैश्यस्य ।

आश्विनकार्तिकौ कन्यातूलयोर्वा रविः । अथ वा मेषादिवसन्तप्रवृत्त्या सर्वेऽप्यत- वो ज्ञेया ज्योतिःशास्त्रात् ।

सर्वेषाꣳ शिशिरः ।

ब्राह्मणादीनां रथकारनिषादयोरपि ।

अमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा ।

आपूर्यमाणः पक्षः पूर्वपक्षः । उक्तेष्वेवर्तुषु पौर्णमास्यमावास्यापूर्यमाणपक्षाश्च । विकल्पेन । आर्यमाणपक्ष इत्यनेन पूर्णमासमणे पुनरुपादानमतिशयार्थ तत्प्रतिप- द्मणार्थ च ।