१० पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।
पुण्ये नक्षत्रे ।
आपूर्यमाणपक्ष इत्यनेन पुण्ये नक्षत्र इति समुच्चीयते वाशब्दस्यात्रानन्वयात् । तत्र समानस्याहः पञ्च पुण्यानि नक्षत्राणीत्युक्तानि नात्र संवध्यन्ते । सूर्योदयापूर्वमेव गार्हपत्याधानमुदिते सूर्य आहवनीयाधानमिति नैतस्य प्रयोजनमस्ति । तस्मात्पुण्यनक्ष- शब्देन कृत्तिकाद्यानि पूर्वोक्तानि द्वादश नक्षत्राणि गृह्यन्ते । तान्यविशेषेण सर्व. वर्णानाम् । अस्मिन्पक्षे कृष्णपक्षपरिसंख्या कृत्तिका ब्राह्मणस्येत्यत्र पक्षे तु कृष्णप- क्षेऽपि न तत्र पदिरोऽपि कृत्तिकासु वसन्ते पर्वासंभवाद्वैशाख्यमावास्यामाने कचिः संभाव्यत इति ब्राह्मणस्याऽऽधानकाल दुर्लभता स्यात् ।
यत्र त्रीणि संनिपतितान्यृतुर्नक्षत्रं पर्व तत्समृद्धम् ।
श्रुतिरेव वाजसनेयिनामियं पठिता । संनिपतितानि गार्हपत्याधानसमये मिलितानि यदि लम्यन्ते तत्समृद्धमतिसगुणमित्यर्थः ।
विप्रतिषेध ऋतुर्नक्षत्रं च बलीयः ।
त्रयाणां समुच्चयालाभे पर्वादरो न कार्यः किंतु वसन्तादिकेपूतेष्वेवर्तृषु नक्षत्र- मेव ग्रामम् । अत्राऽऽपूर्यमाणपक्ष इति समुच्चीयते तदर्थमेवाऽऽरम्भोऽस्य ।
सोमेन यक्ष्यमाण आदधानो नर्तुं न नक्षत्रꣳ सूर्क्षेदित्येकेषाम् ।
यस्य ब्राह्मणस्य वात्याश्विननिमित्तं नास्ति स सोमपूर्वाधानं कुर्यात् । अन्यस्य तु तन्न संभवति । भकृतसांनाय्येऽपि तद्विकारे पशौ नाधिकारीति तस्य होमपूर्वमिष्टिपूर्व वोभयथा दर्शपूर्णमासाम्यामिष्ठा प्रायश्चित्तपश् कृत्वा सोमेन यजेत । केचित्तयोः पश्वोः सवनीयेन सहाऽऽलम्भं कल्पकारवचनादिच्छन्ति । न सूझेन्नाऽऽद्रियेत । सूर्तधातुरादरार्थः । तत्र नक्षत्रे पर्वणि वाऽऽधाय सेष्टयपवृज्याऽऽगामिपर्वपर्यन्तं दीक्षापक्षमाश्रित्य कर्तुं शक्यते । एकादशीमारभ्य द्वादशीमारभ्य वा तथा कर्तुमप्तमर्थों वसन्तमात्रेऽनिमादधीत ऋतुमपि न सूक्षेदित्युक्तम् । इदं ब्राह्मणव्यतिरिक्तविषयम् । तेषां न वसन्त आधानकालः सोमस्तु वसन्त एवं सर्वेषाम् । ततस्तु सोमानुरोधेन. वाऽऽधीत ।
प्राचीनमुदीचीनं वोदवसाय शालीनोऽग्नीनादधीत प्राचीनप्रवणे देवयजने ।
शालीनो नाम शाला गृहास्तेषु निवसति स शालीन इति शब्दानुगतिः शालीन- वृत्त्याऽनुजीवनमस्येति धर्मशास्त्रे दर्शिता वृत्तिस्तद्वान् । गृहेभ्य उदीचीनं प्राचीन वा देवयजनयोग्य देशमौपासनेन सह गत्वा तत्राऽऽधीत । देवय जनदेशः सोमे व्याख्या- स्यते तत्र प्राचीनप्रवणे स्वभावतोऽमीनादधीत तत्र शालायामित्यर्थः । ३८