पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३११ -४च० पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् ।

अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवः समीचीः पुमाꣳसं जातमभिसꣳरभन्तामिति जातं परिगृह्णाति ।। ५ ।।

इति हिरण्यकेशिसूत्रे तृतीयप्रश्ने तृतीयः पटलः ।

परिग्रहणमञ्जलिनेति वैखानसो जातमञ्जलिनाऽभिगृह्णातीत्यापस्तम्बः । परितोऽञ्ज. लिना गृह्णाति परित उत्तानो हस्तौ किंचिदूर्वागुष्ठपार्टी करोतीत्यर्थो भावना च परिगृहीतोऽसीति ॥ इति हिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्यां तृतीयप्रश्ने तृतीयः पटलः ॥ ३ ॥

3.4 अथ चतुर्थः पटलः ।

तमादाय प्रथमाभ्यां व्याहृतीभ्यां यथर्ष्याधानेन प्रथमाभ्याꣳ सार्पराज्ञीभ्यां प्रथमेन च घर्मशि- रसा प्राणे त्वामृतमादधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । अग्ने गृहपते परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाऽभिनि- दधामीति गार्हपत्यायतने संभारेषु प्रतिष्ठापयति ।

तमग्निमादाय तूलशुष्कगोमयचूर्णादिना पुष्टं पात्रेणाऽऽदाय प्राश्चमुद्धृत्याऽऽसीन इति वैखानसापस्तम्बौ । व्याहृतीभ्यां यथाधानेनेति मन्त्रनामधेयं यथर्षयो यस्य यजमानस्य ऋषिस्तमनतिक्रम्य यो मन्त्र आधानसाधनं स यथाधानमित्यमि. धीयते । स त्वग्रे वक्ष्यते । सर्वमग्रे स्वयमेव वदति । सर्वेषां मन्त्राणामन्ते रथंतरे साम्नि प्रारब्धे संमारेषु प्रतिष्ठापनं तत्राऽऽधानमन्त्राणां करणमन्त्रत्वेऽपि न मन्त्रान्तेन कर्मा. दिसंनिपातो न स्याद्रआंतरारम्मेण व्यवधानादसंभवादन्य एव साम गायति तावत्पर्य वस्यतीत्यत एवाऽऽहाऽऽपस्तम्बः-ब्रह्माऽऽग्न्याधेयतामानि परिगायतीति । बौधायनस्तु साम्नामर्थ उद्गातारमेवाऽऽह रथंतरं ब्रूहीत्यथैनमादधातीति । इदं छन्दोगानामेव युक्तम् । यद्यपि यजुर्वेदविहितत्वादुपांशुत्वमेव परिभाषायां दर्शितं तथाऽपि सामवेदे