पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्याषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्चे-

नाग्निमादित्यं च व्यवैति ।

अध्वर्युरभि पश्चात्कृत्वा मध्ये सूर्यस्याग्नेश्च व्यवायं न कुर्यात् ।

पूर्वमग्निं हरति पश्चादन्वेति दक्षिणतो वा परिगृह्येव हरति नाकोऽसि ब्रध्नः प्रतिष्ठा संक्रमणमिति समयार्धे हिरण्यं निधाय वरे दत्तेऽतिक्रामति ।

समयापथ(६)मर्धभागवाचि तथा चार्धा हिरण्यं मन्त्रेण निधाय वर्मनि हिरण्य- निधानम् । तदुक्तं वैखानसेन तस्मिन्नध्वनि हिरण्यं निधायेति । यनमान इमा उ मामुपतिष्ठन्विति मध्याज्रियमाणमनिममिमन्त्रयते वरं ते ददामोति वरं ददाति । सतोऽध्वर्युरतिकामन्दक्षिणतो यज़मानो ब्रह्मा च ।

बृहस्पते परिदीया रथेनेति दक्षिणतो ब्रह्मा रथं वर्तयति ।। ९ ।। रथचक्रं वा ।

स्थानामित्यन्तः । वर्तयति वायति विहारे तिष्ठन्गार्हपत्यादाहवनीयपर्यन्तम् । सदुक्तं वैखानसेन-गार्हपत्यादाहयनीयात्संततं त्रिः परिवर्तयतीति ।

यावच्चक्रं त्रिः परिवर्तते द्वेष्यस्य षट्कृत्वोऽभ्यस्था द्विश्वाः पृतना अरातीरिति प्राञ्चमश्वं दक्षिणेन पादेन संभारानाक्रमयति पार्श्वतो वोत्तरतः संभाराणां यथाऽऽहितस्याग्नेरङ्गाराः पदमभ्यवपत्स्यन्तीति ।

गार्हपत्यादारभ्याऽऽहवनीयपर्यन्तं नीत्वा पुनः प्रदक्षिणं गार्हपत्यपर्यन्तं वाहयति पुनस्तथैवेति त्रिवार तावति कालेऽध्वर्युरग्निमाग्नीधहस्ते दत्वाऽश्वं प्राञ्चं तस्य दक्षि- णेन पादेनाऽऽहवनीयायतनगतानसंभारानाक्रमयति अश्व आक्रामति तेन तथा कारयती- त्याक्रमयति संभाराणामुत्तरतः पार्श्वत उत्तरे पाय वोभयथाऽपि आहितस्याग्रङ्गारास्त. स्पदमभि उपरि अवपत्स्यन्तीत्येवमाक्रमयति मन्त्रेण ।

यदक्रन्दः प्रथमं जायमान इति प्रदक्षिणमश्वं पर्याणीय तदेव पदमाक्रमयति प्रत्यञ्चम् ।

परितो भ्रामयित्वाऽऽहवनीय प्रति प्रत्यश्चमानीय तेनैव पादेन तदेव पदमाक्रम- यति प्रत्यङ्मुखम् । एतत्सर्व चक्रस्य त्रिः परिवर्तनमध्य एव कर्तव्यम् । अन्निति मन्त्रान्तः । द्वेप्यस्य षट्कृत्व इति प्रतिषेधार्थः ।

अश्वाभावेऽनडुहः पद आदधीत स तु पूर्ववाडेव स्यात्तस्य सदेव बन्धुः ।

अनः शकटं वहति तम्य वृषभस्य पदेऽग्निमादधीत तस्यानडुहः प्रतिनिधिरूपत्वे. नाश्वलिङ्गस्य न निवृत्तिनानडुहः । सोऽनडुत्पूर्ववाटपूर्ववयस्कः । तथोक्तं बौधायने- -