पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'४च पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३१७ नाश्वं पूर्ववहमिति युवानमित्येव तदुक्तं भवतीति । एवमनडुइपि ज्ञेयः । तस्य पूर्व- वाहोऽश्वस्य पूर्ववाडेवानडुत्सदा बन्धुः समान इव (१)।

प्रत्यङ्मुखे नियते धार्यमाणे ।

अश्वे वाऽनडुहि वा प्रत्यङ्मुख एवाऽऽहवनीयायतनदत्तपदे नियमेन कृते सति पुरुषान्तरध्वर्युः ।

यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाः शंभूः प्रजाभ्यस्तनुवे स्योन इत्यभिमन्त्र्य ।

भग्निमिति शेषः । आपस्तम्बेनोक्तम् - कमण्डलुपद आदधीतेति । बचब्राह्मण- मजस्य पद आदधीतेति वाजसनेयकमिति । कमण्डलुशब्दोऽपि चतुष्पदपशुजाति- वाची शाब्दिकैरुदाहियते कामण्डलेय इतिरूपसिद्धये । आकार्यकृत्यसिद्धये (१)।

सर्वाभिर्व्याहृतीभिर्यथर्ष्याधानेन प्रथमोत्तमाभ्याꣳ सार्पराज्ञीभ्यामुत्तमेन च घर्मशिरसा प्राणं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै। अग्ने सम्राडजैकपादाहवनीयदिवः पृथिव्याः पर्यन्त- रिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाऽभि निदधामी. त्याहवनीयायतने संभारेषु प्रतिष्ठापयति यज्ञायज्ञिये बृहति श्यैते च गीयमाने निहिते वारवन्तीयं गायति प्रतिषिद्धान्येकेषामग्न्याधेये सामानि ।

तमिध्ममिति शेषः । तिष्ठन्नेवाऽऽदधाति । यजमान आनशे व्या० प्नश इत्या- हितमाहवनीयमुपतिष्ठते तथाऽऽधानमन्त्रैश्च प्राणं त्वेतिवर्नम् । ये ते अग्ने दध इति शिवाभिस्तनूभिराहितमाहवनीयमुपतिष्ठते । आधीयमान इति ब्राह्मणे दर्शनात्सूत्रे पुनर्यज्ञायज्ञिये गीयमान इत्यादिनिर्देशात्साम्नामाहवनीयाधानस्य सहभावोऽवगम्यते । आहवनीयाधानं चाल्पकालसाध्यमिति यज्ञायज्ञियबृहच्छयैतानां बहुकालसाध्यत्वा- दुद्धरणानन्तरमेवैषामारम्भो यावत्प्रतिष्ठापयत्यायतन आहवनीयम् । अत एव बौधाय- नेनोक्तं बृहति गीयमान आदधते । एकेषां शाखिनां प्रतिषिद्धान्याधानसंबन्धीनि

१ क. ख. ग. च. छ. ट. ठ. ण. °न घ। २ क. ख. ग. च. छ. ट. ठ, ण, ति ३ क. ख. ग च. छ. ट, ठ, ण, 'केषां सा ।