पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

... ३३२ सत्याषादविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने-

इष्टिः पुरुषसंस्कारश्चार्थवादाद्धि गम्यते । तथा च संस्कृतः कुर्यात्पुनराधानमेष वै ॥ ७ ॥ उवासनं तु वदीनां संस्कृतिर्न तु नाशनम् । इष्टयर्थयरिङ्ग सत्प्रतिपत्तिर्यतो विधिः ॥ ८ ॥ उदास्येतिल्यपोद्वासः पुनराधान एव हि । अङ्गमुक्तस्ततोऽनीनां संस्कार; परिकीर्तितः ॥९॥ न बोद्वासनतो नष्टेष्वग्निषु क्व च संस्कृतिः । उच्यते म हि नाशोऽयमुद्रासनमुदीर्यताम् ॥ १० ॥ किं तु क्रियाङ्गतां तेषां विसृज्य खस्खयोनिषु । स्थापन शक्तिरूपेण पृथिव्यादिषु सत्विह ॥ ११ ॥ या ते अग्न एवमुक्तहोममन्त्रैः प्रतीयते । स्थापितानां पुनः पूर्वावस्थया स्थापनाय हि ॥ १२ ॥ प्रत्यक्षेण स्वरूपेण पुनराधानमिष्यते । न चैवं पुनराधेयं प्रायश्चित्तार्थमिष्यते ॥ १३ ॥ अग्निनाशे सतीष्टं तत्रोत्सर्गो हि निवर्तते । द्वाराभावात्ततो ह्येतदतिदिष्टं यथोचितः ॥ १४ ॥ अझैरेवोपसंहार्य न नक्षत्रर्तुमिः सह । अन्याधेयातिदेशोऽयं यथा नर्सतुभिः सह ॥ ११ ॥ तस्मादाधानमेवान्याधेयं मुख्यं ततोऽन्यथा । गौणं तथैव पुनराधानं नैमित्तिकात्पृथक् ॥ प्रायश्चित्ततया नियमाणं तद्धर्मलाभतः ॥ १६ ॥ इदानी प्रायश्चित्तेषु यत्र पुनराधेयमिति नामधेयं श्रूयते तत्रैव पुनराधेयधर्मकं प्राय- श्चित्ताधार्न यत्राग्न्याधेयमिति कर्मनामधेयेन विधिस्तत्राग्न्याधेयधर्मकमेव प्रायश्चित्ता- धानमिति नामभ्यां विध्योर्व्यवस्था । यत्र न नामधेयं तत्र पुनरादधीतेत्येवमादि यत्र क्रियापदमात्रं तत्रापि पुनराधानधर्मकमेव प्रायश्चित्ताधानं पुनःशब्दे विद्यमाने प्रत्यभि- ज्ञानात्पुनःशब्दे त्वविद्यमाने च पुनरविकृतमाधानमेवाऽऽधीतेत्यस्मात्प्रतीयत इति तद्धर्मकं प्रायश्चित्ताधानमिति व्यवस्था। प्रकृतमनुसरामः-

रोहिणी पुनर्वसू अनूराधाश्च पुनराधेयनक्षत्राणि ।

एष्वेव नक्षत्रेषु पुनराधानं नान्यत्र । प्रायश्चित्ताधाने तु न नियमः, निमित्तानन्तर मेव क्रियमाणत्वात् ।