पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ७१०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३४१

क्तन्यायारूढमनेन सूत्रेण कृतमुद्धरणं तु पूर्वपूर्वकाल एव नियम्यते । अत्र यजमानो विहारं प्रविशति विश्वदानीमिति । यदन्न इति स्थूलमिध्ममाहवनीय उत्तरया गार्हपत्य एवमन्यत्र । तूष्णी सम्यावसथ्ययोः । विद्युदसीत्यप उपस्पृश्यापरेणाऽऽहवनीयं दक्षि- णाऽतिक्रम्य स्वायतन उपविशति पत्न्यपि स्वस्थाने । ततोऽध्वर्यु:-

परिसमूहनेनाग्नीनलं करोत्यग्ने गृहपते शुन्धस्वेति गार्हपत्यमग्ने वह्ने शुन्धस्वेति दक्षिणाग्निमग्ने सम्राट् शुन्धस्वेत्याहवनीयम् ।

परितोऽभ्युक्ष्य हस्तेन सृणाद्यपसारणेन स्निग्धताकरणं परिसमूहनं तेन लक्षितानग्नी- न्पुष्पादिप्रकारेणालं करोति । तदुक्तं वैखानसेन-पर्युक्षणपरिसमूहनपरिपुष्पकरणै- रग्नीनलं करोतीति । प्रत्यग्नि सकृन्मन्त्रेण पर्युक्षणादिकमेकैकत्र समापनीयम् । परि- समूहनादिकमलंकरणमेव सर्वमिति प्रधानेनालंकरणेन मन्त्रसंबन्धोऽथ वा शुन्धस्वेति लिङ्गात्पर्युक्षणानन्तरं समूहने मन्त्रस्तूष्णीमलंकरणं मलापगम एवालंकारो युक्त इत्ये. कापवर्गताऽपि तृतीयया दर्शिता ।

पुरस्तादलंकाराः सायमुपरिष्टादलंकाराः प्रातः ।

भवन्तीति शेषः । उपरिष्टाद्धोमकर्मान्ते ।

उभयतोऽलंकारानेके समामनन्ति ।

पूर्व व्यवस्थयोक्तमत्र पक्षे समुच्चयः ।

दर्भैरग्नीन्परिस्तृणाति यथा दर्शपूर्णमासयोः ।

गतार्थम् ।

अग्निहोत्रपात्राणि प्रयुनक्ति खादिरꣳ स्रुवं वैकङ्कतीमग्निहो- त्रहवणीमचक्रावर्तामशूद्रकृतामूर्ध्वकपालामग्निहोत्रस्थालीम् ।

दर्शपूर्णमासत्रुवव्यतिरिक्तत्वख्यापनायाग्निहोत्रपात्राणीत्युक्तम् । सुवाग्निहोत्रह. वण्यौ व्याख्याते । कुलालचक्रेण न विद्यत आवर्तो भ्रमणं यस्याः सेति शूद्रव्यति. रिक्तेन त्रैवर्णिकेनैव कृतामित्यर्थः । ऊर्वानि कपालानि सानूनि यस्याः सा । एव- मग्निहोत्रद्रव्याधारभूतस्थाली मृन्मयो । त्रीण्येतानि नैतेषां द्वंद्वनियमः स वैष्टिकः । अत्रापि यथा दर्शपूर्णमासयोरिति वर्तनीयम् । तथा च स्रुवमग्निहोत्रहवणीमेकमिति द्वंद्वम् । वैखानसस्तूत्तरेण गार्हपत्यं कूर्चे प्रयुनक्तीत्याह ।

दक्षिणेन विहारं गौरवस्थिता भवति ।

होमारम्भात्पूर्वमेवाऽऽनीता । विहारो विहृताग्निस्थलम् । एनपा विहाराददूर इत्यु- कम् । पुंवत्सामिति कात्यायनः ।