३४२ सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयप्रो-
इड एह्यदित एहि सरस्वत्येहि गौरेहीति तामाहूय पूषाऽसीति वत्समुपसृजति धावन्तं वाऽनुमन्त्रयते ।
तामवस्थितामाहूयेति धर्ममात्रम् । उपसृजति गवा संयोजयति । मुक्तं धावन्तं वा पूषाऽसीत्यनुमन्त्रयते ।
प्राचीमुदीचीं वाऽऽवृत्यान्यः शूद्राद्दोग्धि न संमृशति यथोपलम्भमनूचो वा ।
वत्समपच्छिद्य शूद्वादन्यस्त्रैवर्णिको दिगन्तराभिमुखां स्थिता प्रदक्षिणमावृत्य प्राची. मुदीची वा स्थापयित्वा दोधि । न संमृशति प्रस्त्रवार्थ सोदकेन पाणिनाऽधो न समृ. शति । सर्वथा समर्शनप्रतिषेधो न गुज्यतेऽशक्यत्वाद्यथा पय उपलभ्यते तथा स्तना- नियमेन संमृश्य दोग्धि । तत्र नियम्यते यदि स्पृशति प्रस्रकार्य तदा स्तनानेवानून एव स्तनमूलादापर्यन्तम् ।
पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रीः स्यादपरौ दुह्यात्कनिष्ठस्य कानिष्ठिनेयस्य यो वा बुभूषेत् ।
पूर्वी स्तनौ तथा चापरावपि । नैमित्तिको नियमः । व्याख्यातमन्यत् । यो का भूतिमिच्छेदयं काम्यः।
दोहने दुग्ध्वा स्थाल्यामानयति स्थाल्यां वा दोग्धि ।
दोहने दोहनपात्रेऽग्निहोत्रस्थाश्यां वा । तदुग्धं पूर्वेणाऽऽहवनीयमानयेदिति कात्यायनादयः।
द्वयोः पयसा पशुकामस्य जुहुयात्पूर्वमधिश्रित्योत्तरमानयेत् ।। १६ ।।
पशकामस्य यजमानस्य पूर्वदुग्धमझारेषु अधिश्रित्य ततोऽन्यस्या दुम्वाऽधिश्रिते पयस्यानयेत् ।
ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति सत्यं त्वर्तेन परिषिञ्चामीति प्रातः ।
प्रदक्षिणमुदकेन सिञ्चति ।
आहवनीयं परिषिच्य गाहर्पत्यमथ दक्षिणाग्निं गार्हपत्यं वा परिषिच्य दक्षिणाग्निमथाऽऽहवनीयम् ।
तुल्यश्रुतिस्वाद्विकल्पोऽयशब्दः श्रुतिगतोऽनूदितः । अन्ते सम्यावसथ्यौ।
यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै नयामि संतत्यै त्वा यज्ञस्येति गार्हपत्यात्संततामपां धाराꣳ स्रावयत्याहवनीयात् ।
आहवनीयं मर्यादीकृत्य गाई पत्यमारभ्याविच्छिन्नामुदकधारां करोति । आरादु. पकारकमेतत् ।