पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्यते । मध्यमस्य वापस्तम्बेन 'इमा खनाम्योषाधं वीरुधं बलवत्तमाम् । यया सपत्नी माधते यया संविन्दते पतिम् । इति पत्न्यामध्ये पत्युरेकस्यामनुरागेऽन्यतर- स्यामसति पाठाख्यवीरुधं हस्ते बद्ध्वाऽनुरागो भवतीति तस्याः पूर्वेयुः खनने मन्त्रो विनियुक्तः । ननु स्वस्थान एवं किमपि विहितं कर्म लक्षयन्तु लक्षणा सर्वत्र सुलभेति भविष्य. त्यङ्गत्वम् । सन्ति च तूष्णीकानि कानिचित्कर्माणि सापेक्षाणि । न वाऽभिधासंभवे लौकिककर्मसु सति लक्षणा न युक्ता । लक्षणयाऽपि स्वस्थाने निवेशो दृश्यते । यथा गार्हपत्यमुपतिष्ठन्त इत्युपक्रम्यैकयोपतिष्ठन्त इति निवेशनः संगमनो वसुनामिति मन्त्रमिन्द्रप्रकाशकं गार्हपत्योपस्थाने विनियुङ्क्ते । न चायं प्रत्यगाशीमो येन गाई- पत्यात्प्रत्यगाशिषमेवार्थयत इति स्यात् । किं विन्द्रप्रकाशक एव । गार्हपत्यस्या- संस्कार्यत्वेऽपि गार्हपत्योपस्थानेन गार्हपत्यप्रकाशनरूपेणापूर्व भावयेदित्यर्थावगमे सति गार्हपत्यप्रकाशनं योगेन लक्षणया चै क्रियत एवं किमपि तूष्णो कं कर्म कयाऽपि वृत्त्या प्रकाशयन्तु नोत्कर्षों युक्त इत्यत आह-

यथोपदिष्टं ब्राह्मणवन्तो यथारूपमितरे ।

ब्राह्मणमुपदेशलक्षणविनियोनकश्रुतिसहितो मन्त्रविनियोजकविधिः । तयेषां मत्रा. णामस्ति ते ब्राह्मणवन्तः । तेऽभिधामलभमाना यथोपदिष्टाः श्रुत्या यर्थत्वेनोपदिष्टास्त. मर्थमनुलध्यैव कयाऽपि वृत्त्या यज्ञकर्मार्थाः । न हि गोणी वृत्तिरभिषया समानवला यत एव गौणी । तस्माद्यत्राभिधा प्रमाणान्तरेण बाधिता तत्र दृष्टार्थस्वलाभाय गौण्या- श्रीयते नान्यथा । उक्तं च पार्थसारथिमिश्रः- 'गौणे सदपि सामथ्र्य न प्रमाणान्तराद्विना । आविर्भवति मुख्ये तु शब्दादेवाऽऽविरस्ति तत् ॥ सादथ्यं च स्वतो मुख्य गौणेऽर्थपरता पुनः । प्रमाणान्तरविज्ञेया तदभावान सिध्यति । ॥ इति । अथासति याधे तु मुख्ययैव कर्मार्थी इत्याह-यथारूपमितरे । इतरे विधि- नाऽबाधितामिधानशक्तयः । ते यथाभिधाशक्ति यज्ञकर्मार्था नतु गौण्या योगेन वा सर्वयज्ञकर्मार्थाः । अभिधया न समान व्यापारान्तरमस्तीति न सर्वकर्मार्था इत्यर्थः । कुतः सर्वकर्मार्थत्वेन प्राप्तिरिति चेत् । उच्यते-यज्ञकर्मार्था मन्त्रा इत्युक्तं, तत्र च वाक्यप्रकरणस्थानः साङ्गकर्मार्थताऽवगम्यते । तत्र रूपमभिधारूयं - क.ख. ग. च. पादास्य । 7 क.ग.च. १. "तमम् । २ ख. ग. च. यथा । "हितकर्मलक्षणा । ५. वा। ५