पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ सत्पाषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्र-

क्वचित्प्रकृत्यन्तरे पदलोपो वा विकृतिमात्रगामित्वं चेत्यादि ज्ञेयम् । सर्वथाऽप्यसमर्षे कचित्समर्थ पदमभिधया क्वचिद्वृत्त्यन्तरेण समर्थ स्यात्मकृत्यर्थो मन्त्रस्त त्रासमर्थ श्वे- स्कुत्र समर्थः स्यादिति न प्रकृतावूहः ।

पत्नीꣳ संनह्योपहूतोऽयं यजमान इति ।

बहुपस्नीकयजमानेऽष्टी पत्नी संनोति मन्त्रे बहुवचनान्तत्वेन नोहः । पत्नीत्वज्ञातेः पदार्थत्वेन समर्थनीयत्वात् । पत्नीसंयाजेषु चोपहूतोऽयं यजमान इति यानुषे हौके नोहः । लिङ्गाविवक्षयाधिकारिमात्रविवक्षया समर्थनीयत्वादित्याशयः । श्वो यज्ञाय रमतामित्यत्र सद्यस्कालपूर्णमासे बाधोऽपि श्वः पदस्यत्यादि ज्ञेयम् ।

तथोत्तरस्यां ततौ यथासमाम्नातम् ।

उत्तरततौ विकृती या प्रकृती नोहितो मन्त्रः स विकृतावपि तेनैव प्रकारेण समर्थ- नीयो न तूहनीय इति तथा यथा प्रकृती यथासमाम्नातं यथाप्रकृतिपाठं पौर्णमासतस- घस्कालविकृतावपि श्वःपदेनायेतिपदमूह्यं प्रकृतिपाठेन लुप्तपदेनैक प्रयोग इति च देयं समानन्यायस्वात् ।

प्रतिनिधिष्वर्थलुप्तानि न क्रियेरन्यथा लूने लवनमन्त्राच्छिन्ने छेदनमन्त्रः ।

प्रतिनिधियहो नास्तीति द्वितीयप्रश्नप्रथमपटलान्त उक्तमत्र नोक्तम् । नत्र तु मश्रा- णामहप्रसङ्गेन बाधोऽप्युच्यते मरद्वाजादियजुष्क्रियापक्षप्रतिक्षेपार्थम् । अर्थलुप्तानि दृष्टं प्रयोजनमर्थस्तस्माल्लुप्तानि कर्माणि द्रव्याणि यजूंषि वा न कियेरन्न प्रयुज्येस्स्वयं कृता यथा बार्हषि प्रतिनिधित्वेन गृहीते पूर्वमेव तथा यूपे छिन्ने लवनच्छेदनप्रकाशक- योर्मन्त्रयोर्नप्रयोग एवं लवनच्छेदनाद्यपि दृष्टार्थत्वेन क्लृप्तं तदभावे तेषु न कार्यम् ।

यत्र पयः श्रपणार्थेन श्रूयते देवस्त्वा सवितोत्पुनात्वित्युत्पवननं संनमति पयो देवाग्रेष्वग्र इत्यभिमन्त्रणमेवमाज्ये ।

यत्रेष्टयां दविः श्रपणप्रयोजनेन पयो दुग्ध विधीयते तत्र देवस्त्वेत्यूहेनोत्पवनमुत्यू- यतेऽनेन मन्त्रेण तं परिणमयति । विभक्त्यहमुक्त्वा पदोहार्थ पयो देवा इत्याद्युक्तम् । अमिमाश्रयतेऽनेनेत्यभिमन्त्रण मन्त्रमिमं यज्ञ नय यज्ञपति धेहि त्वामिन्द्रः स्वमिन्द्रमवृणी- थाः प्रोक्षितमसोत्यवशिष्टमूह्यः । आज्यं देवा इत्याज्ये आपणार्येन श्रूयत इति शेषोऽन्य- रपयोवत् । प्रणीताधर्मेण संस्कारप्राप्तादिदमुक्तम् । तत्रेदं चिन्त्यते-कथं प्रणीताधर्म- प्राप्तिर्न तावत्पयः प्रणयत्याज्यं प्रणयतीति श्रूयते नापि संयवनार्थत्वेन श्रवणं येन संयवनार्थानामपां प्रयोजनसंबद्धत्वादन्यस्मिन्द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेश इति