पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ.पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३८३ प्रामोति । संपयनं श्रपणं भवति पिष्टेण्वानयतीति पिष्टाश्रितसंयवनार्थत्वेन मदन्तीनामेव श्रुतत्वान्न च मदन्त्यर्थं प्रणीताग्रहणे विधिरस्ति । तस्मान्न आपणार्थता प्रयोजनमिति । तत्र सिद्धान्तः सूत्रकारेण यत्र पयः श्रपणार्येनेति वदता प्रणीताभिर्हवी षि अपय- तीति श्रुतिमूलं प्रणीताविनियोगेऽङ्गीकृतं पिष्टेषु संयवनार्थ प्रणीता एवं विहिता इति च ज्ञापितम् । प्रकृती पिष्टान्येव श्रपणीयानीति तथोक्तम् । व्यक्तमापस्तम्बेनोक्तम्- प्रणीताभिः संयोतीति । संयवनेन पिण्डो भवति तस्य च पाक इति संयवनं पाकार्यमेव ।

चरुकल्पान्व्याख्यास्यामः ।

प्रकृतितोऽप्राप्तमूह विकृती व्याख्यायेदानी तथैवान्यानपि प्रकृतितोऽप्राप्ताचरौ धर्मान्व्याख्यातुं प्रतिज्ञा न्यायमूलत्वख्यापनायाव्याख्याने स्वप्राप्तेः । कस्पान्यायकहिप- सान्धर्मान् ।

स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति ।

स्थाली लोकप्रसिद्धा कपालानां स्थाने कपालानामतिदेशप्राप्तानां धरुपाकासमर्थानां स्थाने तत्प्रयोजन उद्देश्ये पात्रप्रयोगकाले प्रयुनक्त्युत्तरसंस्कारानपि तुल्यान्कपालव- दित्यर्थोऽन्यस्मिन्निति तत्सूत्र उदाहृत एव ।

तस्य प्रसिद्धमात्रिष्फलीकृतेभ्यः ।

तस्य चरोः समाप्त निविष्टस्यापि बुद्धयाकृष्टस्य तस्येति निर्देशः । तस्य संबन्धि- भ्योऽतिदिष्टेभ्यस्तण्डुलेम्यनिष्फलीकृतेभ्योऽभिव्याप्य प्रकृतित एव सिद्धं प्राप्तं कार्य- मिति शेषः । प्रक्षालननिनयनान्तं त्रिष्फलीकरणेन लक्षितम् ।

प्रथमेन कपालमन्त्रेण स्थालीमुपधाय ।

प्रथमेन ध्रुवमतीत्यनेन ध्रुवासीत्येवमूहितेन । कपालमन्त्राणामनेकत्वादनेके विकरुपेन प्राप्तास्तत्र प्रथमेनैवोपधानम् । स्थाली प्रथमा प्रथमकपालधर्मेणोपधेया । कृतप्रयोजना इतरे निवर्तन्ते । उपधायेति पूर्वसंस्कारसाहित्यं यथाप्रकृतीति दर्शितम् । उपवेशादि- नाऽङ्गारनिर्वर्तननिरसनावस्थापनानि पूर्वाङ्गाण्यपि । उपधानानन्तरमुपर्यङ्गाराध्यूहनमुप- रितापार्थ नास्ति चरौ तस्य प्रयोजनाभावादित्यावेदयितुमुपधायेति ल्यपा निर्दिशति ।

शूर्पादेव तण्डुलान्समोप्योत्पूयाधिश्रयणमन्त्रेणोप्य पर्यग्निकृत्वा श्रपयित्वाऽभिघार्य स्थाल्यैवोद्वासयति ।

पदार्यानुपूर्वीकथनं विशेषप्रदर्शनार्थे मध्ये पदार्थनिवृत्त्यर्थं च । शूर्पादेवेति कृष्णा- निनव्यवधाननिवृत्त्यर्थ ज्वसनपर्वन्तं माष्यकृता त्वङ्गीकृतमेव । तदुपरि न मवेदपि तु परितः सामर्थ्यात् । संवपामीत्यन्तेन तिरःपवित्रं पाव्यामुत्पूय होस्त्वेत्यनेन । प्रणी- 3 १५... ज. स. म. द. श्रेणाधित्रित्य प।