पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5 २ १५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४३ मन्त्रैरर्थप्रतिपादनरूपाण्यनुवचनान्येव गृह्यन्ते, नपुंसकलिङ्गेन निर्देशात् । तेननपश- स्त्रमन्त्राणामपूर्वोत्पादकार्थप्रकाशनसाधनभूतानामनेकेषां प्राप्तावपि प्रतिमन्त्रमपूर्वभेदेन कर्मावान्तरभेदान्न समुच्चयः । हौत्राणीत्यनेनान्यत्र शस्त्रनपेष्वप्यपूर्वभेदानेद एवं कर्मणाम् । शस्त्रकर्म यत्रैकवचनेनोच्यते तत्रावान्तरजातिभेदेऽपि समुदायापूर्वस्यै- कस्याङ्गीकारादेकवचनमुपपन्नम् । तथा च परिशेषद्रव्यसंस्कारार्थार्थप्रकाशनसाधन- मन्त्राणामेवानेकप्राप्तौ समुच्चयोऽनेनोक्तः । अत्रापि प्रतिमन्त्रमदृष्टार्थस्मृतिजनकत्वेऽपि द्रव्यस्यैकत्वात्समुच्चयः। यत्रानुवचनैर्द्रव्ये दृष्टः संस्कारो जन्यते तत्रान्यस्य वैययं मा भूदिति विकल्प एवेत्याह-

अन्यत्र याज्यानुवाक्याभ्यः ।

होत्राणि समम्युच्चीयरन्याज्यानुवाक्यानुवचनानि न समभ्युचीयेरभित्यर्थः । दृष्टसंस्कारार्थस्मृतिजनकत्वमुपपादितं कात्यायनेन । सर्वत्र होत्रकाणां समुञ्चये प्राप्त भाह-न याज्यानुवाक्यासु विरोधात् । देवतास्मरणार्था ह्यनुवाक्या हविःस्मरणार्या च याज्या । अतो दृष्टार्थत्वाद्विकल्पः । तथा च ' यति चानुवाक्यया प्रयच्छति याज्यया' इति दर्शनाच्च । दृश्यते वायमर्थो यथा याज्यानुवाक्यासु न समुच्चयः । प्राजापत्यान्प्रकृत्याऽऽमनन्ति-'एकधाऽनुवाक्या भवत्येका याज्यैकदेवत्या हि प्रजा- पतयः' इति । देवतैकत्वमेकत्वाद्याज्यानुवाक्ययोहेर्नु ब्रुवन्नेकत्वं दर्शयति । तथा पितृयज्ञे पुरोनुवाक्यां प्रकृत्याऽऽमनन्ति ' एकया वै देवान्प्रच्याश्यति द्वाभ्यां पितॄन्' इति । अनुवाक्याद्वित्वविधिपरे वाक्य एकत्वं दर्शयतीत्येवं कात्यायनीये । कियार्थी मन्त्रा इति स्थिते यत्र क्रियाया आवृत्तिस्तत्र प्रतिप्रधान मन्त्रावृत्ति- माशझ्याऽऽह-

यत्रैकस्मिन्द्रव्ये विचेष्टापृथक्त्वेनार्थो निष्पद्यते सकृदेव तत्र मन्त्रं ब्रूयात् ।

यत्र यस्मिन्नेकस्मिन्नेकव्यक्तिरूपे समुदाये वैकया विभक्त्यैकवचन द्विवचनबहुवचन- रूपयोद्दिष्टे विषयभूते द्रव्ये विचेष्टाया एकविधिविहितक्रियायाः पृथक्त्वेन नानात्वेना- म्यासेनेति यावत् । अर्थो विधेयभावनायाः प्रयोजनं निष्पद्यते समाप्यते प्रयोजन भवतीति यावत् । तत्र तस्मिन्द्रव्ये विषयभूत उद्देश्य क्रियासंबन्धेन प्रकाश्यप्रकाश- कत्वेन प्राप्तो यो मन्त्रस्तं सकृदेवोच्चारयेत् । अयमभिसंधिः-एकविधिविहिता क्रिया झेकेत्युच्यते यावत्प्रयोजनलामं तस्याः संस्कार्यव्यस्य चैकत्वात्तत्प्रकाशको मन्त्रोऽपि १ख. छ. ट. शेषाद) । २ ख. र.ति वा । ३ क. ग.व. छ. उ. ये का । ४ क.. ग.च. ठ. नव। ५८, "हिताः कि।