पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. शव पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

अग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा ।

चोदकप्राप्तानुवादः पदार्थकमार्थः । बहिराहरणानन्तरं वेदिकरणं तस्य जातत्वात् । यत्र परिस्तरणमुपवास इति क्रिया रात्रेः कालस्याभावेऽपि संस्कारलोपो नास्तीति- न्यायप्रदर्शनार्थ परिस्त रणानन्तरं पाणीप्रक्षालनमेव ।

यथार्थं पाशुकानि पात्राणि प्रयुनक्ति ।

अतिदेशप्राप्तौ चौषधपात्राणां प्रयोजनाभाव इति वक्तुं यथार्थमित्युक्तम् । यथार्थ प्रयुनक्ति पाशुकानि चेत्यर्थः ।

स्फ्यमग्निहोत्रहवणीꣳ स्रुवस्वधिती द्वे जुहूवसाहोमहवनीं द्वितीयां द्वे चोपभृतौ पृषदाज्यधानीं द्वितीयां ध्रुवां द्वे आज्यस्थाल्यौ दधिधानीं द्वितीयां वेदं समवत्तधानीं द्वे रशने द्विगुणां द्विव्यायामां त्रिगुणां त्रिव्यायामां द्वे कार्ष्मर्यमय्यौ वपाश्रपण्यौ द्विशूलामेकशूलां च कुम्भीं हृदयशूलं प्लक्षशाखां स्वरुं मैत्रावरुणदण्डं यूपं यूपशकलपरणी येन चार्थः ।

प्राकृतानि कपालशूर्पाजिनशम्यादिकं निवृत्तमौषधद्रव्याभावात् । खधिति पशो- पिंशसनशस्त्र, जुहु इति जुहूशब्दस्य न विसंज्ञा तथाऽपि जुहू इति निर्देश छान्दसो माषायां जुह्वाविति भवितव्यम् । दधिधानी द्वितीयामिति च प्रथमतो दध्येव यस्यां निरुप्यते तां दधिधानी मित्यर्थः । पृषदाज्यं यस्यां क्रियते सा च पृषदाज्यस्थाल्येव । समवत्तधानीमितीडापात्रं पाशुक, यूपशकलं तक्षणनातमञ्जनार्थम् । स्पष्टमन्यत् । येन चार्थः । येन सुवर्णशकलादिना । एवमन्यदपि ।

पवित्रे कृत्वा यजमानवाचं यच्छेति संप्रेष्यति वाग्यतः पात्राणि संमृशति ।

पवित्रकरणानन्तरं ब्रह्मन्प्रणेप्यामीत्येतदस्त्येव । वाजसनेयकबामणेन प्रणोता. प्रतिप्रसवस्य दर्शपूर्णमासयोयाख्यातमिति प्रणीताप्रणयनमामन्त्रणपूर्व के कार्यभेव । व्याख्यातं दर्शपूर्णमासयोरेव । स्पष्टमन्यत् ।

प्रोक्षितेषु वाचं विसृजते ।

हविकृता वाचं विमृनत होत कालाभावात्प्रोक्षितषु पात्रेषु । यज्ञमात्रेऽपि वाग्यतेन कर्तव्यपदार्थेषु प्राकृतेषु चोदकमाप्तेषु मध्येऽन्ये न सन्तीति प्रोसितेष्वित्युक्तम् ।

उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यत आज्येन दध्ना चोदेहीति संप्रैषस्यान्तंꣳ संनमति ।

स्फ्योदसनानन्तरं मोक्षणीरासादयेत्यादि सपानं, विशेष आभ्येनेत्येतस्यानन्तरं ५३