पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४च पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४२७ इति तन्मा भूदिति द्वयोर्ग्रहणम् । अध्वर्युपां गृहीत्वा गच्छन्वपाश्रपण्योरन्वारम्भ करोत्येवेति यजमानश्चेत्येतावदेव वक्तव्यम् । न । अध्वर्योर्वपालम्भमानं मा भूदपि तु वपाश्रपण्योरेवोभयोरारम्भ इति ।

उप त्वाऽग्ने दिवे दिव इति तिसृभिराहवनीयमुपायन्ति ।

राजन्तमध्वराणां स नः पितेवेति द्वे अन्ये ऋचौ । तिसृभिरेताभिराहवनीयसमीप- मागच्छन्ति । प्रकृता यजमानाध्वर्वाग्नीघ्राः ।

उपसृष्ट उल्मुके प्रत्युष्टमित्याहवनीयस्यान्तिमेऽङ्गारे वपां निगृह्णाति ।

आग्नीघेणाऽऽहवनीय उपसृष्टे मेलिते तस्मिन्नुल्मुके सत्यध्वर्युः प्रत्युष्टमिति समग्रेण मन्त्रेणान्तिमे यतोऽन्योऽङ्गारो बहिर्नास्ति तस्मिन्नणारे निगूढे वपां निगृह्णाति नियच्छ. त्युत्तरत एव ।

वायो वीहि स्तोकानामिति बर्हिषोऽग्रं प्रास्यत्यधस्ताद्वपाया उपास्यतीत्येकेषाम् ।

छिन्नस्य बहिषो वामपाणौ स्थितं यदनं तदाहवनीय एव न चेदानीमेवं वपाया अधस्तादाहवनीयोऽस्ति निग्रहणे कृते न पुनरुपर्येव वपास्त(१)माहवनीये । ए[के]षा- मस्माकमेव शाखिनामस्ति हि वायो वीहि स्तोकानामित्याह तस्माद्विमक्ताः स्तोका अवपद्यन्तेऽयं वा एतत्पशूनां यद्वपाप्रमोषधीनां बर्हिरग्रेणैवाग्र५ समर्धयत्यथो ओषधी- वेव पशून्प्रतिष्ठापयतीति ब्राह्मणमतो वपायाः श्रप्यमाणाया अनुदूतस्तोकाया एवाध- स्तादिति युक्तमुत्पश्यामः । स्पष्टमिदमेवोक्तं भरद्वाजेन-प्रतिप्रस्थाता श्रपयत्याहवनीये वपामधस्ताद्वपाया बहिषोऽयं प्रास्यतीति ।

अन्तरा यूपमाहवनीयं च प्रतिप्रस्थात्रे वपां प्रयच्छति ।

यूपाहवनीययोर्मध्यतः कृत्वा दक्षिणतः स्थिताय प्रतिप्रस्थात्रे ददाति ।

दक्षिणत उदङ्ङासीनः प्रतिप्रस्थाता वपाꣳ श्रपयति ।

उदमुख उत्तरवेद्या दक्षिणत आसीनो वपां शृतां करोति । अत्र बहिरग्रस्य वपाया अधस्तान्निरसनम् ।

त्वामु ते दधिरे हव्यवाहमिति वपामभिजुहोति ।

जुह्वा व्यापृतत्वात् वेण, अभि पपायर्यामेव जुहोत्याज्यस्थाल्याज्येनाध्वर्युरेवः । जुषस्वेत्यन्तः। . 3 १५.अ.ज. पश्या। न. ढ. अपिसृष्टः । २ ग ठ. नद्भुत । ३ . 6. ण. 'ति प्रस्थात्रे वफां