पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्ब्रह्मणे नमः।

सत्यषाढविरचितं श्रौतसूत्रं

महादेवकतवैजयन्तीव्याख्यासमेतम् ।

अथ चतुर्थप्रश्नप्रारम्भः ।

तत्र प्रथमः पटलः । - हविर्यज्ञेषु नियतोपक्रमास्तु निरूपिताः ॥ दर्शाया इष्टिपर्यन्ताश्चत्वारोऽथ निरूप्यते । नित्याम्यासः पशुः पूर्वमनित्याभ्यासकर्मतः । चातुर्मास्येभ्य एवैवं सौत्रामण्याश्व पूर्वतः ॥ प्रश्ने चतुर्थ ऐन्द्रानो निहलो विकृतैः सह । सर्वेभ्यः कामेभ्यः पशुबन्धोऽपि विधीयमानो दर्शितो बौधायनेनार्थवाफक आप- स्तम्भेनान पक्षेषु प्रथमप्रश्ने प्रथम पटल एवाधिकारिनिर्णयो दर्शपूर्णमासवदेव वृत्तोऽ. तो न व्याख्यायते । अभ्यासचोदनायां यावज्जीवचोदनासमानाधिकारोऽपि तृतीय- प्रश्न आग्रपटल एवं वृत्तस्तस्मात्प्रयोगमेव व्याचष्टे-

ऐन्द्राग्नेन पशुना षाण्मास्ये षाण्मास्ये यजत आवृत्तिमुख आवृत्तिमुखे संवत्सरे संवत्सरे वा ।

इन्द्रानो देवते यस्य स तथा । पशुशब्देन च्छागोऽभिधीयते । छागस्य वाया इति लिङ्गात् । अनादेशे छाग इति बौधायनः । उत्पत्तिविधियं कालविधिश्च । फळतो जीवनं वा न विकल्पादूर्ध्व कर्म पशुव्यको यागः पशुशब्देनोच्यते । पशु बन्धाख्यं कर्मोच्यते पशुध्यते यस्मिन्निति । षण्मासा एव पाण्मास्यं समुदाये पदमु षट्स मासेषु व्यतीतेषु यत्र पर्वणि प्रथमः पशुबन्धस्तस्मात् । अत्रोदगयनमेव विशे. पानभिधानादनादेश उदगयनमिति वचनात् । वीप्सया कालावधेरभावाद्यावज्जीव- मिति गम्यते । आवृत्तिः सूर्यस्यायने इत्ययनयोर्मुखे संक्रान्त्यनन्तरपर्वणि केचिन्मुख इति संक्रान्त्यनन्तरदिन इत्याहुः । अत्राप्युदगयन एवाऽऽरम्भः । संवस्तरपक्षेऽपि तथैव । क. ख. च. छ. ट, दकफ। ५०