१.प्र.पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४५६
मधुश्च माधवश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति मधवे स्वाहा माधवाय स्वाहेति वा ।
मन्त्रान्ते स्वाहाकारः । शाखान्तरीयाः स्वाहाकारान्ता एव पठिताः। मासनामभिः रित्यागामिभिस्तेन फल्गुनीपूर्णमासे दीक्षेरन्मुखं वा एनत्संवत्सरस्येति चित्रापूर्णमासे दीक्षेरन्मुखं वा एतत्संवत्सरस्येत्युभयत्र संवत्सरप्रवृत्तिदर्शनान्ममादिसंज्ञाः फास्गुनं चैत्रं वाऽऽरम्य ज्ञेयाः।
पृषदाज्येन नवानूयाजान्यजति ।। २ ।।
पशौ कृतव्याख्यानम् । देवान्यनेति प्रथमम् । यन यनेत्युत्तरान् । प्रयत्रय एक- कस्य विकारा इति याजमाने वक्ष्यति । प्रथमाष्टमनवमानां प्राकृतस्वाद्वितीयादयः क्रमेण प्रयाणां विकारा द्वौ दावेकिस्य मात्राणिक्यो देवताः । देवतापदानां षष्ठप. मानामन्तेऽहं देवयज्ययेत्यादि यथाप्रकृतिविकारं ज्ञेयम् ।
संवत्सरीणाꣳ स्वस्तिमाशास्ते दिव्यं धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीष्षु होताऽनुवर्तयति ।
वैशेषिकमिदं दिव्यं धामाऽऽशास्त इत्येतस्मात्पूर्व संवत्सरीणार स्वस्तिमाशास्त इति होताऽनुवर्तयति दिव्यमित्यनुवृत्तं करोति ।
प्रहृतेषु परिधिषु सꣳस्रावेणाभिहुत्य वाजिनेन प्रचरति ।
यत्र परिधिप्रहरणं तत्र संखावेणाभिहोम इति वकुमुक्तं, प्रतेवित्यादि । तेन प्रहृत्य परिधीम्जुहोतीति वाजिनबामणेन न विरोधः । समिद्धोमस्य प्रहरणागत्वादि- स्यर्थः । वाजिनयागस्यात्र काल इत्यर्थः ।
वाजिनपात्र उपस्तीर्य बर्हिषि विषिञ्चन्वा जिनं गृह्णाति पूरयित्वा नाभिघारयति ।
उत्कर आसादित तस्मात्पात्रात्सुण गृह्णाति विषिषन्स्कन्दयन्बहिषीति देखा. मसः । अन्ततीत्यापस्तम्बः । तेन वानिनपात्रेऽन्तर्वेदि स्थिते पूरयतीत्यनेनोकं नाप- दानधर्म इति पात्रपूरणं यावद्भवति तावद्गृह्णाति । अत्र याजमानं पञ्चहोता ।
वाजिभ्योऽनुब्रूहि वाजिनो यजेति संप्रेष्यति ।
यथाक्रमम् ।
ऊर्ध्वज्ञुरासीनो होताऽनवानं यजति ।
ऊर्ध्वनानुर्न पातितजानुः । तिष्ठतोर्वजुत्वं मा भूदित्यासीन इत्युक्तम् । सर्वत्र हौत्रकर्मरूयापनं याजुषहौत्राभिप्रायेणाऽऽवयवकाण्डपठितत्वादत्र व्याख्यानं श्रुतेः कृतः मित्युक्तं न विस्मरणीयम् । अनुसन्यनति यान्यापुरोनुवाक्पयोर विरामम. कृस्वेत्यर्थः ।