पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [५ पञ्चमप्रश्ने--

संमार्ष्टि दक्षिणमग्निम् ।

पूर्वमसंमृष्टमिदानी समाष्टयाग्नीधः ।

ऐन्द्राग्नपर्यन्तैः प्रचरिते ।

आधारादितन्त्रमाण्यभागान्तमुभयोराग्नेयादिकमध्वर्योस्तस्मिन्नन्द्रामपुरोडाशप्रसारान्ते सति, तावत्स्नुपाणिरास्ते प्रतिप्रस्थातेति कात्यायनः ।

प्रतिप्रस्थाता मारुत्याः पूर्वेण सहावदानेन कृत्स्नां मेषीमवद्यत्युत्तरेण शमीपर्णकरीराणि ।

पूर्वमुक्तान्येवोत्तरावदानेन सहावदाय प्रचरतीत्यर्थः । स्पष्टमन्यत् ।

अध्वर्युर्वारुण्याः पूर्वेण सहावदानेन कृत्स्नं मेषमवद्यत्युत्तरेण शमीपर्णकरीराणि ।

अवदाय प्रचरतीत्यर्थः । स्पष्टमन्यत् । अन्नाऽऽमिक्षयोः सानाग्यविकारत्वाद्याज- मानं सांनाम्यवदेव । भाष्यकृता तु वैश्वदेव्यामिक्षाविकारत्वान्मरुतामहं देवयन्यया प्राणैः सायुज्यं गमेयमित्येवं वारण्यामपीत्युक्तं तदभाष्यविरोधादरेक्ष्यम् । नहि दर्शादेवानुमन्त्रणप्राप्तौ विकृतेरनुमन्त्रगं ग्रहीतुं शक्यम् । न च तत्स्था धर्म आमि. क्षाया वैश्वदेव्यास्तत्प्रकरणे.ऽनधीतत्वाद्विश्वेषां देवानामिति मन्त्रस्य । स हि मन्त्रोऽना- रभ्याधीतो यत्र विश्वे देवा देवतास्तत्राऽऽमिक्षायां चरावाज्यहविषि वा प्राप्नुयाल्लि- ङ्गेन । ततस्तु वैश्वदेवचरौ यदुक्तमग्न षोमानमन्त्रणं तदप्ययुक्तम् । आनुमानिकाद्वा- क्याल्लिङ्गस्य बलीयस्त्वात् । एवं च वैश्वदेवहविर्मात्रस्य मन्त्रो न वैश्वदेव्यामिक्षाया एव स्वधर्म इति नाऽऽमिक्षान्तरेतु तस्यानिदेशः। किंच भरदानेनोक्तमाग्रयणेष्टावेव वैश्वदेवचरौ विश्वेषां दे प्राणैरित्यादि, तस्मिन्ने ककपाले द्यावापृथिव्योरित्यादि । ततः पुनराहाथो एवात ऊर्ध्व वैश्वदेव्यपृाव्यानामनुमन्त्रयेदिति । तथाचैते देवताप्रयुक्ता एव मन्त्रा नान्यदेवताकहविरन्तरं प्राप्नुवन्ति । तस्मारकस्याप्यनु पन्त्रणं न द्यावापृथि- व्यादीत्यपि सिद्धम् । तच्च कस्याहं दे. नाद इदमेव । कात्यायनेऽप्येवमेव सूत्रे । प्रकृतमनुसरामि-

कायानुबूहि कं यजेति ।। ६ ।। एककपाले संप्रेष्यति ।

शाखान्तरीया श्रुतिरिय प्रायेण देवतानिर्णय उदाहृताः ताऽन्यथाऽपि निर्वाप एवं यात् । सर्वनामाऽपि सर्वशब्दो देवतावाच्यस्ति कस्मै स्वाहेत्यादिदर्शनात् । तदर्थ काय जुष्टमित्येव ज्ञेयमिति दर्शितम् । कस्याहं दे० न्नाद इत्येतदनुमन्त्रणम् । . ० १ स. ग. च, ट, ठ.स. ण. प्रचरितः ।