पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्र- [५ पञ्चमप्रभे-

कुम्भीं तिस्रश्च पात्रीः ।

पाकार्य कुम्भौमुद्धरणपात्रीः | अध्मावहि परिसंख्या प्रणीतानां च न प्रणीताः प्रणयतीति भरद्वाजः । ब्राझं वरणं च । अत्र स्तीत्त्यन्तमुपदेशेनान्य सामयनेति ज्ञेयम् ।

निर्वपणकाले मरुद्भ्यो गृहमेधिभ्यः प्रभूतान्व्रीहीन्निर्वपति यावत्पयो मन्यते ।

पयानुसारेण बहीणां निर्वापः । चतुरो मुष्टीनिरुप्य प्रभूतानन्वावपतीति भरद्वाना- पस्तम्बौ । चतुर्थ्यन्तदेवतापदेन मन्त्रोऽप्यनुज्ञातो देवस्य स्वेति ।

पवित्रेण गां दोहयति ।

वत्सापाकरणार्थमानीतेन शाखापवित्रेणेतरधर्मनिवृत्तिश्च परिसंख्यानात् । तथा चेत- दुक्त्वाऽऽपस्तम्बः पक्षान्तरमाह मनाय्यवदिति । स पक्षोऽस्मादस्ति । वत्सापाकरण- ममत्रममत्रो दोहः । पवित्रेण कुम्भ्यामन्तगार्हपत्ये ऽधिश्रितायामित्यर्थः । .

न तण्डुलानुत्पुनाति यजुरुत्पूतेनैव पयसा श्रपयतीत्येकेषाम् ।

चरुधर्मत्वेन प्राप्तत्वात्प्रतिषेधो नोत्पुनातीति । तूष्णी शाखाहरणपक्षे तु पवित्रणे. त्ययं विविरेकेषां शाखिनां यदा न शाखाहरणं तदा यजुरुत्पूतेनेति विधिरे केषाम् । एवकारः प्रणीतानिवृत्यर्थः । पवित्रेण दोहनिवृत्त्यत्वेऽत्र पयः श्रपणार्थ श्रूयते तथाऽपि प्रतिषेधान्न पयः प्रणयतीत्यर्थः । यजुषा देवो वः सवितेत्यनेनोत्पतेन । अत्र हि श्रूयते सर्वासां दुग्वे सायं चामिति । तत्र दुग्यस्य श्रपणार्थत्वेन श्रूयमाणत्वान्न प्रदेयद्रव्यतेति लौकिक वत्सापाकरणं लौकिको दोहः । तत्र प्रणीताप्रतिषेधाय यजुरु. त्पूतेनेति पक्षो न्यायसिद्धः । शाखान्तरे तु शाखया वरतानपाकृत्य पवित्रेण संदोह्य तं चरुं श्नपयतीति । तथा तमेव प्रकृत्य श्रूयते तस्य दय्यावृदिति 'द्विःप्रकारा क्रिया सांनाव्यवदौषधदिति श्रुतेरथः । तत्रास्यापूर्व कर्मत्वाद्यावदुक्कमेव ग्राह्यम् । औषध- धर्मास्तु युक्ता एवं दर्शिताः । सानाग्यधर्मास्तु वचनात्पक्षे यावदुक्का एव ग्राह्या ननु तेषां गन्ना अपि। मन्त्रा पतिदेशान्न भवन्ति । दोहविकारत्वाभावात् । तस्मादोहोऽप्य- मन्त्र एष । यदपि श्रूयते यजुषा वत्तान पाकरोतीति तदपि प्राप्तये नतु प्राप्तनिषेधेन तस्य यजुषोऽतिदेशोपदेशाम्यामप्राप्से, न चात्र वाचनिकोऽतिदेशोऽस्ति । अतिदेशवत्वं सामानाधिकरण्येनेति श्रुतिः सायमग्निहोत्रमिति संज्ञा तथैतद्ब्राह्मणानीति वाक्यम् । नचैतन्नित्यवत्कर्तव्यमिति विधिरस्तु किंतु कियानौषधधर्मः किया श्रुतधर्मोऽत्र दृश्यत १ ख. ग. च. १, ठ. इ. . म् । म । २ च. ट म । तुषध । ३ च. ट. क्षेण । ४ च. ट. वाच्यम् । ५व द. तु प्राप्त: कि ।