पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१० सत्यापाठविरचिंतं श्रौतसूत्र- [२नवमप्र-

होतृचमसमुख्यानेकादश चमसानुन्नयति पुरस्तादाग्नीध्रचमसादच्छावाकचमसमुन्नयति ।

पुरस्तादाग्नीधचमसादच्छावाकचमसमुन्नयतीत्येतावान्विशेषोऽन्न । अन्यत्समानम् । एकादशेति सदस्याभिप्रायम् ।।

माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्य मध्यतः. कारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युनीयोपावर्तध्वमिति संप्रेष्यति यत्प्राक्पुनरभ्युन्नीतेभ्यस्तस्मिन्कृते प्रसर्पणमन्त्रैर्होत्रकाः प्रसृप्य पुनरभ्युन्नीतानां यजन्ति ।

पुनःशब्दोऽवधारणे । अम्युन्नीतेभ्यः प्रागेव यत्कर्म तस्मिन्कृते नमोऽनये मखन्न इत्यादयो मन्त्राः प्रसर्पणमन्त्रास्तोत्रकाः सदः प्रसृप्य । दक्षिणार्धपरक्षगा- न्तं सदाप्रसर्पणम् । अत्रापि पुनःशब्दोऽवधारणार्थक एव । यत्प्रा क्युनर म्युन्नीते. भ्यस्तस्मिन्कृत इत्येतस्थायमर्थः-यत्प्रागेवाभ्युन्नीतेभ्यः प्रेषणं तस्मिन्कृते तस्मिन्नुच्चा रिते सति । अस्मिन्नवसरे प्रसर्पणमहोत्रकाणां प्रसर्पणम् । एतदर्थमेव कृत्स्न. पस्य पाठः । प्रथमत आश्वलायनसूत्रोक्तरीत्योपविष्टेषु सत्स्वपीदं याजुषहौत्राविषयक पुनःप्रसर्पणं वाचनिकम् ।

अयाडग्नीदिति होतुराख्याय निरवदाय होत्र इडामादधात्युपहूयमानामुपोद्यच्छन्ते चमसाꣳश्चमसाध्वर्यवः ।

होतुराख्यायेतीदमाख्यानग्रहणात्समद्रमकरित्येतदुच्चारणकाल एव निरवदानं न तु तदनन्तरम् ।

नेडाशकलमच्छावाकाय निदधाति ।

एतादृशविशेषविधानार्थ एवायमनुवादः । अर्थस्तु स्पष्टः । प्रातःसवनेन कल्पों व्याख्यात इत्यनेनेडाशकलानिधानं प्राप्तं तदनेन निवार्यते ।

यथाचमसं चमसिनो भक्षयन्ति तेषां व्याख्यातो भक्षमन्त्रः।

चमसमनतिक्रम्येति यथावमसम् । कृतव्याख्यानं प्रातःसवने

सन्नेषु नाराशꣳसेषु दक्षिणेन वेदिमवस्थितासु दक्षिणासु दाक्षिणानि जुहोति यथा वैसर्जनानि ।

दक्षिणेनेत्येनपा-वेदिसंलग्नदेशे दक्षिमानामवस्थानम् । वेदिमहावेदिः । दक्षिणा प्रयुक्तानि होमात्मकानि कर्माणि दाक्षिणानि । यथा वैतर्जनांनीत्यनेनामात्यान्वार- म्भोऽतिदिश्यते ।