पृष्ठम्:समासचक्रम्.djvu/२

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः ।
श्रीवेङ्कटेश्वरायनमः ।
समासचक्रम् ।

॥ श्रीगणेशाय नमः॥

षोढा समासाः संक्षेपादष्टाविंशतिधा पुनः ।
नित्यानित्यत्वयोगेन लुगलुक्त्वेन च द्विधा ॥ १ ॥
तत्राष्टधा तत्पुरुषः सप्तधा कर्मधारयः ।
सप्तधा च बहुव्रीहिर्द्विगुराभाषितो द्विधा ॥ २ ॥
द्वंद्वोऽपि द्विविधो ज्ञेयोऽव्ययीभावो द्विधा मतः ।
तेषां पुनः समासानां प्राधान्यं स्याच्चतुर्विधम् ॥ ३ ॥
चकारबहुलो द्वंद्वः सचासौ कर्मधारयः ।
यस्ययेषांबहुव्रीहिः शेषस्तत्पुरुषःस्मृतः ॥ ४ ॥
कर्तृकर्मक्रियायुक्तः प्रयोगः स्यात्सकर्मकः ।
अकर्मकः कर्मशून्यः कर्मद्वन्द्वो द्विकर्मकः ॥ ५ ॥