पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१११

पुटमेतत् सुपुष्टितम्
80
श्रीसरस्वतीविलासे

"अधिकारोऽभियुक्तस्य नेतरस्यास्त्यसङ्गतेः" ॥

इति । अस्यार्थः-- इतरस्यानभियुक्तस्य अस्मिन् विवादे संबन्धाभावान्नास्त्युत्तरदानेऽधिकार इति । इतरस्योत्तरवादित्वं त्रेधेत्याह--

उत्तराधिकारिणः.

"इतरोऽप्यभियुक्तेन प्रतिरोधीकृतो मतः ।
समर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि"
प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यस्स्वयम् ।

इति । अयमर्थः--

 इतरोऽपि-- विवादासंबद्धोऽप्यभियुक्तेन प्रतिरोधीकृतः-- प्रतिवादीकृतः मतः-- मन्वादीनामिति शेषः । अन्यो-- द्वितीयः प्रतिवादी । परो विवादासंबद्धः धर्माधिकारिणि-- प्राड्विवाके अभियुक्तेन समर्पितः, अर्थिना वा स्वयमेव यः प्रतिपन्नः--प्रतिवादित्वेनाङ्गीकृत इति । एतच्चानधिकारिणः प्रतिवादित्वमकल्याद्यधिकारिविषयं वेदितव्यम् । अत्राधिकारिणः साक्षात्कर्तृत्वस्य सुदुष्करत्वात् । अकल्यो-- रोगी । आदिशब्देन अप्रगल्भजडोन्मत्तवृद्धस्त्रीबाला विवक्षिताः ।

अकल्यादीनां प्रतिनिधिदानं नियुक्तत्वेन ।

अत एव हारीतेन-

 "अकल्यबालस्थविरविषमस्थक्रियाकुलकार्यातिपातिव्यसनिनृपकार्योत्सवाकुलमत्तोन्मत्तप्रमत्तार्तभृत्यानामाह्वानमकार्यमित्युक्तम्" । अकल्यो व्याख्यातः । विषमस्थः-- उत्पन्नसङ्कटः । क्रियाकुलो-- नित्यनैमित्तिककर्मव्यग्रः । यस्य त्वागच्छतो