पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/११३

पुटमेतत् सुपुष्टितम्
82
श्रीसरस्वतीविलासे

कार्षापणानां सङ्ख्येयम् ।

"कल्पितो यस्य यो दण्डः अपराधस्य शक्तितः ।
पणानां ग्रहणं तु स्यात् तन्मूल्यं वाऽथ राजनि ॥"

इति कत्यायनोक्तेः । शक्तित इत्युक्त्या आपद्विषये न दण्डप्रकल्पनं । किंतु निवृत्तौ पुनराह्वानं कार्यं । तच्च परमार्थं चेत्, अथापरमार्थं; तदा दण्डयित्वा पश्चान्न्याय्यं प्रवर्तयेत् ।

"प्रतिष्ठाप्यस्तु यत्नेन सोऽन्यथा दण्डभाग्भवेत् ।
दण्डयित्वा पुनः पश्चात् राजा न्याय्ये प्रवर्तयेत् ॥'

एवं येनकेनाप्युपायेनानीतमभियुक्तमभियोक्ता[१] सभायाः पुरतोऽन्यत्र वा स्थाने स्थापयेत् । यत्र स्थिते दृष्टलक्षणप्रच्छादनमशक्यं तत्र स्थापयेत् । ततो राज्ञा पृष्टोऽभियोगी स्वाभियोगवृत्तान्तमावेदयेत् । अभियोक्तृकृतावेदनमात्रतो भूतान्वेषणानुपपत्तेः, द्वयोश्छलवादित्वे निश्चिते पश्चाच्छलानुसारेण दर्शनविधिः । अतोऽभियुक्तस्यापि वृत्तान्तावेदनमस्तीत्यवगन्तव्यम् ।

वादिप्रतिवादिनोरुभयोः प्रतिभूग्रहणं.

"उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥"

इति याज्ञवल्क्यस्मरणाद्वादिनोश्छलत्वनिश्चयानन्तरं साधितधनदण्डयोरनायासेन प्राप्तिरूपकार्यनिर्णयसमर्थः प्रतिभूरर्थि प्रत्यर्थिनोर्द्वयोरपि ग्राह्यो व्यवहारद्रष्ट्रेत्यर्थः ।

अत्र वर्जनीयाः.

 अत्र प्रतिभूकर्मणि केचिन्निषिद्धाः-- शत्रुस्वामितदधिकृतनिरुद्धदण्डितसंशयस्थरिक्तमित्रात्यन्तवासिराजकार्यनियुक्त



  1. मभियुक्तास्स--D.