पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१२२

पुटमेतत् सुपुष्टितम्
91
व्यवहारकाण्डः

अव्याख्यागम्यामेत्वत्यत्र प्रसिद्धप्रयोगेण दुश्श्लिष्टविभक्तिसमासाध्याहाराभिधानेन वा अदेशभाषाभिधानेन वा । शेषं सुगमम् ।

संग्रहकारेणापि--

"अनन्यार्थमभिन्नार्थं न्यायागमसमन्वितम् ।
अन्यूनानधिकं भ्रष्टमनन्याक्षरसंभवम् ।
भाषायामिति पत्रेषु लिखितायामनन्तरम् ।
प्रत्यर्थिनश्श्रुतार्थस्य कालोऽयं दातुमुत्तरम् ॥"

अनन्यार्थादिलक्षणान्विनं यथा भवति तथा लिखितायां भाषायामित्यर्थः । अयं च कालनियमो गवादिविवादेष्वेव ।

"गोभूहिरण्यस्त्रीस्तेयपाष्यात्ययिकेषु च ।
साहसेष्वभिशापे च सद्य एव विवादयेत् ॥"

अभिशापो-- वधानुशंसनम् । तस्य पारुष्यभेदत्वेऽप्यादरात्पुनर्वचनम् । याज्ञवल्क्योऽप्याह--

"साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥

अन्यत्र ऋणाऽऽदानादावित्यर्थः--

ऋणोपनिधिनिक्षेपदानसंभूयकर्मणां ।
समये दायभागे च कालः कार्यः प्रयत्नतः ॥"

समयः-- समयानपाकर्म । अयमर्थः-- सद्यः कृतेषु सद्य एव विवादयेत् । कालातीतेषु कालं दद्यादिति । अत एव पितामहः--