इति । अनेनैव हि वचनेन मन्युकृतविवादेषु प्रमादाभिधाने प्रकृतादप्यर्थाद्धीयत इति गम्यते । यथाऽहमनेन शिरसि पादेन ताडित इत्यावेदनसमये अभिधाय भाषाकाले हस्तेन वा पादेन वा ताडित इति वदन् न केवलं दण्ड्यः, अपितु पराजित एव । अस्मिन्नर्थेऽर्थिनः प्रत्यर्थिनश्च प्रमादपरिहारार्थ एवोपदेशो याज्ञवल्क्येन कृतः--
"अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत्" ॥
इति । अभियुज्यत इत्यभियोगोऽपराधः । तमभियोगमनिस्तीर्य-- अपरिहृत्य एनमभियोक्तारं न प्रत्यभियोजयेत्-- अपराधेन न संयोजयेत् । यद्यपीदं प्रत्यवस्कन्दनरूपं प्रत्यभियोगः, तथापि स्वाभियोगोपमर्दनरूपत्वान्न निषेधविषयः । इदं प्रत्यर्थिनमध कृत्योक्तं, अर्थिनं प्रत्याह स एव--
"अभियुक्तं च नान्येन नोक्तं विप्रकृतं नयेत्" ॥
इति । अन्येन अभियुक्तम्-- अनिस्तीर्णाभियोगमन्योऽर्थी नाभियोजयेत् । किञ्च आवेदनसमये यदुक्तं तद्विप्रकृतं विरुद्धस्वभावं न नयेत् । एतदुक्तं भवति-- यद्वस्तु येन रूपेण वेदनसमये निवेदितं तद्वस्तु भाषाकाले तथैव लेखनीयम् । नान्यथेति ॥
ननु,
"प्रत्यर्थिनोऽग्रतो लेख्यं यदावेदितमर्थिना "
इत्यत्रेदमुक्तं, किमर्थं पुनरुच्यते 'नोक्तं विप्रकृतं नयेत्’